________________
परिशिष्ट-१
२१७
च तच्छरीरारम्भककर्मणां तत्त्वज्ञानिनोऽपि नारदादयः सुखोपाये प्रवर्तन्ते दुःखोपाये च निवर्तन्ते, तथा च तत्त्वज्ञानजन्यदुरितनिवृत्तेस्तादृशदुरितसमानकालीनतया नोक्तरूपात्यन्तिकत्वं निर्वहतीति वाच्यम् । जातेऽपि तत्त्वज्ञाने भोगादेव प्रारब्धशरीरकर्मसु क्षीणेष्वेव तत्त्वज्ञानान्तराहितदुरितनाशोपगमात् तस्यैवात्यन्तिकत्वेन मोक्षरूपत्वात् । न च तादृशकर्मसु विद्यमानेष्वेव तत्त्वज्ञानरूपनाशकबलात् कथं नेतरकर्मक्षय इति वाच्यम्। चरमतत्त्वज्ञान एव दुरितनाशकतावच्छेदकजातिविशेषोपगमात् । न च तत्त्वज्ञानादशेषदुरितनाशेऽर्थवशादेव तस्य स्वसमानाधिकरणदुरितासमानकालीनत्वरूपात्यन्तिकत्वनिर्वाह इति पुरुषान्तरीयदुरितसमानकालीनदुरितध्वंसत्ववन्निरुक्तं मुक्तित्वमपि न तत्त्वज्ञानजन्यतावच्छेदकम्, तत्त्वज्ञाननाश्यतावच्छेदकतया च न दुरितेषु जातिविशेषकल्पनसम्भव गोवधादिजन्यतावच्छेदकजातिभिः सङ्करप्रसङ्गात्, अविशेषितदुरितनाशत्वेऽपि न तत्त्वज्ञानजन्यतावच्छेदकत्वसम्भवः भोगजन्यादिदुरितनाशे व्यभिचारादिति कथं तादृश्यामपि मुक्तौ तत्त्वज्ञानस्य हेतुतेति वाच्यम्। भोगादिघटतिसामग्रीमन्तरेणैव तत्त्वज्ञानेन दुरितनाशात् तत्र तद्धेतुताया आवश्यकत्वे अगत्याऽऽत्यन्तिकत्वविशिष्टस्यैव तद्धर्मस्य तत्त्वज्ञानजन्यतावच्छेदकत्वसिद्धेः । पुरुषान्तरीयदुरितासमानकालीनत्वविशिष्टस्य दुरितनाशस्य जन्यतावच्छेदकत्वे मानाभाव एव बाधकः ।
(१२) अथ दुरितनाशेऽपि तत्त्वज्ञानस्य हेतुत्वमप्रामाणिकं भोगादेव सर्वत्रादृष्टनाशोपगमात् अन्यथा "माभुक्तं क्षीयते कर्म" इत्यादिवचनविरोधः स्यात् । न च तत्त्वज्ञानेन कर्मणोऽविनाशे
समानाधिकरणेतरदुरितसमानकालीनतयोक्तरूपात्यन्तिकत्वविरहान्नात्यन्तिकदुरितनिवृत्तिरूपमोक्ष इति भावः। समाधत्ते-जातेऽपीति । प्रारब्धशरीरकर्मक्षयान्ते तत्त्वज्ञानान्तरादितरसकलदुरितनिवृत्तेरेव मोक्षरूपत्वान्नात्यन्तिकत्वानिर्वाह इति भावः । चरमतत्त्वज्ञान एवेति । तथा चादृष्टनाशत्वावच्छिन्नं प्रति विजातीयतत्त्वज्ञानत्वेन कार्यकारणभावान्न प्रारब्धकर्मदशायां चरमतत्त्वज्ञानं विनेतरकर्मक्षय इति भावः । स्यादेतत्-यथा पुरुषान्तरीयदुरितासमानकालीनदुरितनिवृत्तेर्न मुक्तित्वं तथा तत्त्वज्ञानादशेषदुरितनाशेनार्थतस्तस्य स्वसमानाधिकरणदुरितासमानकालीनरूपात्यन्तिकत्वनिर्वाहेऽपि नोक्तरूपमुक्तित्वस्य तत्त्वज्ञानजन्यतावच्छेदकत्वम्, एवं गोवधादिजन्यतावच्छेदकजातिभिः सङ्करात् तत्त्वज्ञानान्निरुक्ता नाश्यतावच्छेदिका दुरितनाशनिष्ठात्यन्तिकत्वादिविशेषिता जातिरपि कल्पयितुमशक्या, अविशेषितदुरितनाशत्वमपि भोगादिजन्यदुरितनाशे व्यभिचारात् तत्त्वज्ञानजन्यतावच्छेदकं नैव सम्भवतीति कथमुक्तरूपमुक्तौ तत्त्वज्ञानस्य कारणतेत्यभिप्रायेणाशङ्कते-न चेति । सङ्करप्रसङ्गादिति । प्रायश्चित्तनाश्ये गोवधजन्यादृष्टे तत्त्वज्ञाननाश्यतावच्छेदकजातेरसत्त्वेन तत्त्वज्ञाननाश्ये ब्रह्मवधजन्यदृष्टे गोवधजन्यतावच्छेदकजातेरसत्त्वेन परस्परव्यभिचाररूपोऽत्र सङ्करो विवक्षित इति ध्येयम् । अगत्या प्रकारान्तरेण व्यभिचारवारणासम्भवेन, तथा च चरमतत्त्वज्ञानाव्यवहितोत्तरजायमानस्वसमानाधिकरणदुरितासमानकालीनदुःखनिवृत्तौ तादृशतत्त्वज्ञानस्य कारणत्वान्नोक्तसङ्कव्यभिचाराविति भावः । आत्यन्तिकत्वविशिष्टस्यैवेति । अर्थसमाजग्रस्तस्यापीति भावः।
__ (१२) स्यादेवमपि यदि दुरितनाशे तत्त्वज्ञानस्य कारणता स्यात्तदेव नेति युक्त्या शङ्कते-अथेति । तत्त्वज्ञानिनां पापरूपकारणसत्त्वाद् दुःखरूपकार्यस्यावार्यत्वात्कथं तेषां मुक्तिः स्यादिति कथं स्यादित्यादि ग्रन्थशङ्कातात्पर्यम् । कतिपयकालोत्तरमिति । कालस्येयत्तया परिमातुमशक्यत्वेन प्राचीनकर्मोपभोगार्थं यो