________________
२१८
मुक्तिवादः
तत्त्वज्ञानिनामात्यन्तिकदुःखनिवृत्तिः कथं स्यादिति वाच्यम् । प्राचीनकर्मणां भोगादेव क्षयेण, वासनाविरहेण निषिद्धानाचरणादिनाऽदृष्टान्तराजननात् दुःखानुत्पादेन कतिपयकालोत्तरं आत्यन्तिकदुःखविगमसम्भवात् । अत एव तत्त्वज्ञानेन कर्मणामविनाशे दुःखस्याऽऽवश्यकतया तत्त्वज्ञानोपाये प्रवृत्त्यनुपपत्तिरित्यपि समाहितम् । न च
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे ॥ यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ! ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥
इति बहुतरवाक्यबोधितं तत्त्वज्ञानस्य कर्मनाशकत्वं दुष्परिहरमेवेति वाच्यम् । माभुक्तमित्यादिवचनविरोधानुरोधेन तत्त्वज्ञानं कायव्यूहसम्पादनद्वारा झटिति सकलकर्मभोगं निर्वाह्य तानि नाशयतीत्यत्रैव ज्ञानस्य कर्मनाशकताबोधकवाक्यानां तात्पर्योपगमात् । यथाग्नेरिन्धननाशे भस्मनि च परम्परयैव हेतुता तथा ज्ञानस्यापि कर्मविनाश इत्येतत्सूचनायैव ज्ञानस्याग्नित्वेन निरूपणम् ।।
(१३) न च माभुक्तमित्यादिवाक्ये कर्मपदं लक्षणयैवादृष्टार्थकमुपगन्तव्यम् तस्य क्रियायामेव शक्तेरिति लक्षणाया आवश्यकत्वे ज्ञानाद्यनाश्यादृष्ट एव सास्तु, तत एव विरोधभङ्गे किमर्थं तत्त्वज्ञानिनां सकलकर्मभोगकल्पनमिति वाच्यम् । अदृष्टेऽपि कर्मपदस्यानादिप्रयोगप्रवाहदर्शनात्तत्र सामान्यरूपेण
यः काल आवश्यकस्तदनन्तरमित्यर्थः । अत एवेति । तत्त्वज्ञानस्य वासनानाशद्वाराऽदृष्टानुत्पादेन मुक्तावपयोगिताया सत्त्वेनैवेत्यर्थः । अस्य समाहितमित्यत्रान्वयः । तत्त्वज्ञानस्य साक्षात्कर्मनाशकतामाशङते-न चेति । तस्मिन् ब्रह्मणि दृष्टे साक्षात्कृते अस्य-परमात्मसाक्षात्कारिणः हृदयग्रन्थिः=आत्मशरीरयोरभेदसंस्कार: भिद्यते विनश्यति । ईश्वरसाक्षात्कारे जाते तत्सामग्रीनियतसामग्रीजन्यतया जीवात्मसाक्षात्कारो भवत्येवातस्तद्विपरीतगोचरात्मशरीराद्यभेदसंस्कारो नश्यतीति हृदयम् । सर्वसंशयाश्छिद्यन्ते इति । ईश्वरसाक्षात्कारे सति योगजधर्मबलेन दोषविरहात् निखिलपदार्थनां यथार्थ एव साक्षात्कारो जायते ततः संशयो भवितुं नैवार्हति तस्यैककोटौ भ्रमत्वनियमात् इति भावः । कर्माणि सञ्चितादृष्टानि, क्षीयन्ते = नश्यन्तीत्यर्थः । नाशकान्तरविरहेण परमात्मसाक्षात्कारेणैवादृष्टनाश इति । एतत्त्रयं कर्मकर्तृप्रत्ययान्तम् आयुः परं क्षीयते इतिवत् । यथाग्नेरिन्धनसंयोगे कायव्यूहान्तरद्वारा परम्परया तन्नाशे भस्मनि च कारणता तथा तत्त्वज्ञानस्यापि परम्परयैव कर्मनाशकतेत्यभिप्रायेण समाधत्ते-माभुक्तमित्यादिना । तत्त्वज्ञानं परम्परया कर्मनाशकमित्यादितात्पर्यं न केवलमस्मदादीनां किन्तु अग्निपदेन सूचितम् इत्याहयथाऽग्नेरिति । परम्परयैव हेतुतेति । अग्निना इन्धनारम्भकावयवेऽभिघातः ततस्तेषु क्रिया तत आरम्भकसंयोगनाशस्ततोऽवयविरूपेन्धननाश इत्यादिपरम्परयेत्यर्थः । अग्नित्वेन निरूपणम्=तत्सदृशत्वेन कथनम् ।
(१३) ननु अदृष्टे कर्मपदस्याशक्तत्वाल्लक्षणस्य तद्बोधस्वीकारापेक्षया विशिष्टादृष्ट एव साङ्गीक्रियतामित्याशयेनाक्षिपति-न चेति । लक्षणाया निरूढलक्षणयाः । स्वारसिकलक्षणाया इति । आधुनिकलक्षणाया इत्यर्थः । अयुक्तत्वात् असङ्गतत्वात् अन्यथा बहूनां विधिनिषेधवाक्यानां एकार्थत्वम्