________________
परिशिष्ट-१
२१९
लक्षणायाः शक्तितुल्यत्वात् कल्पनालाघवानुरोधेन विशेषरूपेण स्वारसिकलक्षणाया अयुक्तत्वात् । न चैतन्मते कर्मणां भोगस्याऽऽवश्यकतया अभुक्तकर्माप्रसिद्ध्या तादृशवाक्यस्य यथाश्रुतार्थपरता न सम्भवतीति वाच्यम् । अतीतत्वस्य क्तप्रत्ययेन विवक्षणात् तत्क्षयापेक्षया अतीतो यो भोगस्तदनुपहितकर्मणि तत्क्षयप्रतियोगित्वनिषेधरूपयथाश्रुतार्थेऽप्रसिद्ध्यनवकाशात् । यद्यपि भोगोऽनुभवविशेषः तद्विषयत्वरूपं भुक्तत्वं न कुत्राप्यदृष्टे, तथापि भोगविषयफलोपधानमेव भोगकर्मत्वं प्रकृते विवक्षितम् । सुखं भुज्यते इतिवत्पुण्यं भुज्यते इत्यादिप्रयोगदर्शनात् तादृशार्थस्यापि सर्वप्रसिद्धत्वादिति चेन्न ।
(१४) कल्पकोटिशतैरपि इत्यन्तेन यथा भावनाख्यसंस्कार: कालवशादपि फलमनुत्पाद्य नश्यति तथा न कर्म इत्येव लभ्यते, तथा च ज्ञानादपि कर्मणो नाशे न कश्चिद्विरोधः अन्यथा प्रायश्चित्तादपि कर्मनाशेन तादृशवचनविरोधपरिहारासम्भवात् प्रायश्चित्तस्य पापानाशकत्वे तत्र प्रवृत्त्यनुपपत्तिः । न च प्रायश्चित्तस्यापि कायव्यूहाधीनझटितिभोगसम्पादनद्वारा पापनाशकत्वमिति तत्र प्रवृत्तिरुपपद्यत एवेति
बहुकालावच्छिन्नस्वर्गादिबोधकानां वाक्यानामल्पकालावच्छिन्नस्वर्गादिबोधकत्वं स्यादिति भावः । एतन्मते=भोगस्य कर्मनाशकतामते । तादृशवाक्यस्य माभुक्तमित्यादिवाक्यस्य । यथाश्रुतार्थपरता भोगेनैव साक्षात्कर्मणो नाशकताऽनुपभुक्तकर्मस्थले प्रसिद्धेत्यर्थः । तत्क्षयापेक्षयेत्यादि । भोगप्रयोज्यो यो वर्तमानः कर्मक्षयः तदपेक्षयेति भावः । तादृशभोगानुपहितत्वं तादृशभोगजनकत्वे सति अव्यवहितपूर्वत्वं यत् तच्छून्यत्वम् । तच्च भुज्यमानभोक्ष्यमाणकर्मस्वपि, तेषु वर्तमानक्षयप्रतियोगित्वं नास्तीति भावः । इदमत्र विचार्यते-तत्क्षयेत्यत्र तत्पदेन किं बोध्यते ? वर्तमानोऽर्थ इति चेत् तत्तादृशश्रुत्यात्मकप्रयोगाधिकरणसमयवृत्तित्वं सामान्यतः प्रयोगाधिकरणसमयवृत्तित्वं वा? आद्ये तादृशश्रुतिप्रयोगोत्तरकाले तत्त्वज्ञानेन कर्मणां नाशेऽपि तादृशप्रयोगाधिकरणकालीनक्षयप्रतियोगित्वाभावसत्त्वेन तादृशार्थाबाधात् विवक्षितार्थासिद्धेः । द्वितीये तु सामान्यतः प्रयोगाधिकरणत्वस्यैव कालमात्रे सत्त्वेन तद्वृत्तिक्षयापेक्षया अतीतभोगोपहितत्वस्येव सकलकर्मवृत्तितया तत्र तदनुपहितत्वाप्रसिद्धः । न च तत्क्षयापेक्षया अतीतभोगानुपहितत्वं क्षयविशिष्टान्यत्वम्, वैशिष्ट्यञ्च स्वाधिकरणकालवृत्तिध्वंसप्रतियोगिवृत्तिभोगोपहितत्वसम्बन्धेनेति वाच्यम् । सर्वेषां कर्मणां प्रत्येकं स्वोत्तरकालीनक्षयापेक्षयाऽतीतभोगोपहितत्वस्यैव सत्त्वे क्षयविशिष्टतया तदसम्भवात् इति चेदत्र नव्याः-स्वनिरूपकक्षयप्रयोजकभोगोपहितत्वसम्बन्धावच्छिन्नस्वाभाववत्त्वमेवातीतभोगानुपहितत्वम् । स्वपदं क्षयप्रतियोगित्वपरम् । स्वाभाववत्त्वं च स्वनिरूपकक्षयप्रयोजकभोगानुपहितत्वस्वरूपोभयसम्बन्धेन। एवञ्च भोगं प्रति तत्त्वज्ञानादिना कर्मणां नाशस्वीकारे तत्प्रतियोगित्वस्य तादृशभोगोपहितत्वसम्बन्धाप्रसिद्ध्या तादृशसम्बन्धेन तादृशप्रतियोगित्वाभावस्य केवलान्वयितया तादृशभावस्वरूपोभयसम्बन्धेन तत्प्रतियोगित्वस्य तादृशकर्मणि सत्त्वात् बाधापत्तेरिति ।
(१४) कल्पकोटिशतैरपीत्यनेनाभुक्तकर्मणः कालमात्रप्रयोज्यनाशप्रतियोगित्वनिषेध एव प्राप्यते कारणसामान्यप्रयोज्यनाशप्रतियोगित्वनिषेधे कैरपीत्येव वक्तव्यं स्यादित्यभिप्रायेण समाधत्तेकल्पकोटिशतैरपीत्यादि । तादृशार्थकरणे दोषमाह-अन्यथेति । अन्यथा कारणान्तरादपि नाश्यतानिषेधे इत्यर्थः । प्रायश्चित्तानर्थक्यादिति । इदमत्र तात्पर्यम् - महापातकादिजन्य-नरकरूपयावदुःखभोगव्यक्तीनामेककालीनोत्पत्तये यदि प्रायश्चित्तं कर्तव्यम्, तच्च गोमयभक्षणादितो दिनयापनादिघटित