________________
२२०
मुक्तिवादः
वाच्यम् । दुःखव्यक्तीनां साम्ये झटितिभोगविलम्बभोगयोरविशेषेण प्रायश्चित्तानर्थक्यात् । एवञ्चावश्यमेव भोक्तव्यमित्यस्याविरोधाय ज्ञानिनामपि सकलकर्मभोगोपगम इत्यपि न युक्तम् । कृतप्रायश्चित्तानां कर्मणां भोगाभावात्तत्र कर्मपदस्य वेदबोधितनाशकानाश्यकर्मपरताया आवश्यकत्वात् । तत्त्वज्ञानरूपनाशकस्यापि वेदबोधिततया तेन भोगं विनैव कर्मनाशे क्षतिविरहात् । (शं )तत्त्वज्ञानस्य साक्षाददृष्टनाशकत्वे क्वचिद्भोगः क्वचिच्च तत्त्वज्ञानम् इत्यननुगमेन व्यभिचाराद्भोगस्यादृष्टनाशकारणता न सम्भवतीत्यपि नाशङ्कनीयम् । भोगोपहितादृष्टनाशत्वस्य भोगजन्यतावच्छेदकतया व्यभिचारानवकाशात्, अन्यथा तवापि प्रायश्चित्तकीर्तनादिजन्यादृष्टनाशे व्यभिचारात् ।
(१५) अथ दुरितनाशस्य सुखदुःखाभावभिन्नतया तद्रूपस्य कथं स्वतः प्रयोजनत्वमिति चेत्, न कथञ्चित् स्वतः प्रयोजनत्वम्, किन्तु दुःखाभावनिर्वाहकतया गौणप्रयोजनकत्वमेव । अथैवं मिथ्याधीजन्यवासनाया अदृष्टद्वारा दुःखप्रयोजकतया तन्निवृत्तेरपि दुःखाभावनिर्वाहकतया पुरुषार्थत्वेन तस्य एव कुतो न मोक्षरूपतोपेयत इति चेन्न । उत्पन्नतत्त्वज्ञानानां वासनानिवृत्तावपि यावत् प्रारब्धशरीराणां कर्मणां नोच्छेदस्तावदपवर्गानभ्युपगमात् । 'तावदेवास्य चिरं यावन्न विमोक्षः अथ सम्पत्स्यते कैवल्येन' इति श्रुत्यापि प्रारब्धकर्मविमोक्षपर्यन्तं ज्ञानिनः कैवल्यविलम्बबोधनादि त्याहुः ।
(१६) एकदण्डिनो वेदान्तिनस्तु यदुपाध्यनवच्छिन्नस्य ब्रह्मणो विशुद्धरूपता तादृश उपाधिविगम एव कैवल्यम् । तादृशोपाधिरविद्यैवेति तन्निवृत्तिरेव तत् । दुःखस्यान्तःकरण
द्वादशाद्वादिरूपम् तदा तत्र कस्यापि प्रवृत्त्यनुपपत्त्या प्रायश्चित्तविधेर्वैफल्यापत्तिः । यतो न कश्चित् रङ्गप्राप्त्यर्थमर्णवे मज्जति । ननु कल्पकोटीत्यादिना कर्ममात्रस्य भोगमात्रनाश्यताऽलाभेऽपि अवश्यमेवेत्यादेः कर्ममात्रस्य भोगविषयत्वविधायकत्वेनार्थतो भोगं विना कर्मणोऽनाश्यत्वलाभाद्विरोध इत्यत आह-एवञ्चेति । प्रायश्चित्तप्रवृत्त्यन्यथानुपपत्तौ चेत्यर्थः । वेदबोधितं नाशकत्वञ्च कर्मनाशकत्वेन वेदप्रतिपाद्यत्वम्, तच्च क्षीयन्ते चास्य कर्माणि इत्यादिरूपम् । भोगस्य तु नाशकत्वेन वेदबोध्यत्वं नास्ति । तद्रूपस्य दुरितनाशरूपस्य ।।
(१५) शङ्कते-अथैवमिति । एवं गौणप्रयोजनस्य मुक्तित्वे । तावदेवेति । अस्य-उत्पन्नतत्त्वज्ञानस्य । विमोक्षः कर्मनाशः चिरं विलम्बः कैवल्यप्रागभाव इत्यर्थः । अथ प्रारब्धकर्मनाशानन्तरमित्यर्थः । आहरित्यस्वरससचनाय. तदबीजञ्च गौणप्रयोजने मक्तित्वस्यानभवविरोधात 'तदत्यन्तविमोक्षोऽपवर्ग' इति न्यायसूत्रादिविरोधाच्च, तच्छब्देन दुःखस्यैव प्रक्रान्तत्वेन परामर्शाद् इति ।
(१६) वेदान्तिमतमुत्थापयति-एकदण्डिन' इत्यादिना । ब्रह्मणोऽविशुद्धरूपता कामचारित्वाद्यभिमानरूपमालिन्यराहित्यम् । उपाधिरिति । वेदान्तिमते अविद्यापरिणामविशेषोऽन्तःकरणं तदवच्छिन्नात्मैव जीव इत्युच्यते शुभ्रस्फटिकस्य जपाकुसुमसान्निध्येन लौहित्यमिव कर्तृत्वादिधर्मरहितेऽप्यात्मनि अन्तःकरणसम्बन्धादेव कर्तृत्वभोक्तृत्व प्रतीतिः । तन्निवृत्तिरविद्याध्वंसः । तत्कैवल्यं
१. शिखासूत्रयुक्तत्वायुक्तत्वाभ्यामेकदण्डित्रिदण्डिमतयोर्भेदः इति केचित् ।
२. अत एव उपाधिशब्दः-उप-समीपवर्तिनि स्वधर्म-लौहित्यादिकं आदधाति आरोपयति इति जपाकुसुमान्तःकरणादिकं बोधयति ।