________________
परिशिष्ट-१
२२१
विशेषबुद्धिधर्मतया तस्याश्च स्वजनकाविद्यानाशनाश्यतयाऽविद्यानिवृत्तेः स्वतःप्रयोजनत्वविरहेऽपि दुःखनिवृत्तिनिदानतया गौणप्रयोजनत्वं दुरपवादमेव अविद्या च पदार्थान्तरमजन्यमपि विनाशप्रतियोगि, तन्नाशकं च ब्रह्मसंवेदनम् । न चाविद्यारूपावरणसत्त्वे ब्रह्मसंवेदनमेव दुर्घटमिति वाच्यम् । ब्रह्मसंवेदनं हि ब्रह्माकारान्तःकरणवृत्तिः वृत्त्याख्योऽन्तःकरणपरिणाम एव विषयावरणभूताविद्यानिवृत्तिफलकः । तदुक्तम्
बुद्धिवृत्तिचिदाभासौ द्वावपि व्याप्नुतो घटम् ।
तत्राज्ञानं धिया नश्येदाभासात् तु घट: स्फुरेत् ॥ एवञ्चाविद्याया अन्तःकरणवृत्तौ न विरोधिता अपि तु विषयस्फूर्तावेव ।
(१७) स्फूर्तिश्च प्रकटता सा च भट्टानामिव पदार्थान्तरमेवेति । न च ब्रह्मणोऽन्तःकरणवृत्तिविषयत्वे ब्रह्मणः स्वप्रकाशचैतन्यरूपतासिद्धान्तविरोधः स्वेनैव प्रकाशोऽवगाहनं यस्येति व्युत्पत्त्या स्वमात्रविषयस्यैव स्वप्रकाशशब्दार्थत्वादिति वाच्यम् । यस्य स्वत एव स्फूर्तिस्तस्यैव स्वप्रकाशत्वात् । जडात्मकस्य प्रपञ्चस्य स्फूतिर्न स्वत एव, किन्तु फलात् । वृत्तिव्याप्यविषये चित्प्रतिबिम्ब एव पारिभाषिकं फलम् । तदुक्तम्
स एव मोक्षः । तदुक्तम्-अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । इति । दुःखस्येति । एकदण्डिमतसिद्धमनोबुद्ध्यहङ्कारचित्ताख्यचतुर्विधान्तःकरणमध्ये निश्चयवृत्तिकबुद्ध्यन्तःकरणधर्मतया तन्मते दुःखादेर्मनोगतत्वात् नात्मगुणत्वम्, आत्मनो निर्धर्मत्वात् "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिीर्धी रेतत् सर्वं मन एवेति" श्रुतेः । नन्वविद्याया विद्येतरपदार्थत्वे घटादिनिवृत्तिरपि मोक्षः स्याद् अत आह-अविद्येति । सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं विचित्रप्रपञ्चभासकमविद्याभिधं पदार्थान्तरं प्रपञ्चभानान्यथाऽनुपपत्त्या कल्पनीयमित्यर्थः । तदिति । तमोनाशक आलोक इव अविद्यानाशकं ब्रह्मसंवदेनमिति भावः । ब्रह्मस्फूतिरेव ब्रह्मसंवेदनमित्याशयेनाशङ्कते-न चेति । ब्रह्मसंवेदनं हीति । तथा चाविद्यायाः स्फूर्तिप्रतिबन्धकत्वम्, न त्वन्तःकरणवृत्तिप्रतिबन्धकत्वमिति भावः । बुद्धिवृत्तीत्यादि । बुद्धिरन्तःकरणविशेषः तस्य वृत्तिविषयाकार: परिणामः । चिदाभासः=प्रतिबिम्बितचैतन्यम् । द्वावपीमौ घटं व्याप्नुतः सम्बन्धनीतः। तत्र घटादावावरणीभूतमज्ञानं घटो नास्तीत्याकारकं धियाऽन्तःकरणवृत्त्या नश्येत् । तत्तन्निष्ठाज्ञाननाशं प्रति तत्तद्विषयाकारान्तःकरणवृत्तेः कारणत्वात् । आभासात्=प्रतिबिम्बितचित्सम्बन्धात् स्फुरेत् आवरणाभावेन स्वाकारावच्छिन्नचिदभेदेन प्रकाशेतेत्यर्थः । तथा चैतन्मते चितेनित्यत्वेऽपि तत्स्फूर्तेरावरणनाशप्रयोज्यतया तन्नाशे घटः स्फुरतीति, तदनाशे च घटो न स्फुरतीत्यादिव्यवहारोपपत्तिरिति तात्पर्यम् ।
(१७) पदार्थान्तरमेवेति । अन्यथा विषये चित्सम्बन्धस्य स्फूर्तिपदार्थतया तस्य चित्स्वरूपत्वे चितो नित्यत्वेन सदैव स्फूर्तिः स्यात्, विषयस्वरूपत्वे च विषयकाले सदा स्फूर्त्यापत्तिर्दुर्वारा स्याद् इत्यर्थः । अन्तःकरणवृत्तिविषयत्वे= अन्तःकरणवृत्तिनिरूपकविषयत्वे । स्वेनेत्यत्र तृतीयार्थो निरूपकत्वम्, अवगाहनञ्च विषयत्वम्, यस्येति षष्ठ्यर्थः कर्मत्वम् । तथा च स्वमात्रनिरूपकं ब्रह्मनिष्ठं विषयत्वमिति व्युत्पत्त्या स्वमात्रविषयत्वस्य प्रकाशशब्दार्थत्वादिति भावः ।