________________
२२२
मुक्तिवादः
मोहातीतो विशुद्धो मुनिभिरभिहितो मोहसङ्क्रान्तमूर्तिः । साक्षी स्वान्ते तदुत्थे प्रतिफलितवपुर्गीयतेऽसौ प्रमाता ॥ वृत्त्यारूढः प्रमाणं फलमपि धिषणावृत्तिसंव्याप्तचैत्यो । पाधिर्मोहोत्थशब्दप्रमुखविषयगः स्यात्प्रमेयः परात्मा ॥ इति । ब्रह्मणश्च स्फूर्तिः स्वत एव, न तु चिदाभासात्, चैतन्यवस्तुनि चैतन्यप्रतिबिम्बासम्भवात् ।
(१८) एतेन ब्रह्मसंवेदनं ब्रह्मज्ञानम्, एवं च स्वविषयज्ञानरूपं ब्रह्मैव तथेति नित्यतया संसारदशायामपि तत्सत्त्वेनाविद्यानिवृत्तिप्रसङ्ग इति परास्तम् । अन्तःकरणवृत्तिरूपब्रह्मसंवेदनस्यैवाविद्यानिवर्तकतया ब्रह्माकारवृत्तेः संसारदशायामसत्त्वेनाविद्यानिवृत्तिप्रसङ्गाप्रसक्तेः ।।
(१९) त्रिदिण्डनस्तु-आनन्दमयपरमात्मनि जीवात्मनो लयो मोक्षः । परमात्मजीवात्मनोरभेदेऽपि उपाधिविशेषविशिष्टस्यात्मनो जीवतया तस्यैवोपाधिक: परमात्मभेद इति भेदकोपाधिविरह एव जीवस्य परमात्मनि यथा घटाकाशस्य घटविगम एव शुद्धाकाशस्य लयः, लिङ्गशरीरावच्छिन्नस्यैवात्मनो जीवभाव इति लिङ्गशरीरनाश एव पर्यवसितो मोक्षः । लिङ्गशरीरं च स्थूलशरीरबीजभूतमहदहङ्कारतन्मात्राख्यभूतसूक्ष्मैकादशेन्द्रियसमुदायः । तद्विशिष्टस्यैवात्मनो दुःखादिमत्तया विशेषणीभूतलिङ्गशरीरस्यैव नाशे
स्वप्रकाशशब्दस्य स्वस्मात् प्रकाशो विषयत्वं यस्येति व्युत्पत्त्या स्वमात्रप्रयोज्यविषयताकार्थत्वात् नानुपपत्तिरित्याशयेन समाधत्ते-यस्येति । द्रव्यचाक्षुषं प्रति संयोगेनालोकस्य हेतुत्वेऽपि आलोकस्यालोकादेव चाक्षुषज्ञानवत् ब्रह्मणः स्फूतिर्ब्रह्मण एव भवतीति भावः । घटादीनां तु न स्वप्रकाशत्वमित्याह-जडात्मकेति । वृत्तिव्याप्यविषयेऽन्तःकरणवृत्त्यवच्छिन्नविषये । चित्प्रतिबिम्ब एव प्रतिबिम्बितचैतन्यमेवेत्यर्थः । तत्र प्रमाणमाह-तदुक्तमिति । शारीरकाचार्येणेति शेषः । मोहातीत इति । सर्वत्र परात्मेति विशेष्यम् । मोहेनाविद्ययाऽतीतः शून्यः सन् परात्मा विशुद्धोऽभिहितः ब्रह्मेति कथितः । मोहेऽज्ञाने सङ्क्रान्ता मूर्तिः स्वरूपं यस्य स तादृशस्सन् साक्षी सर्वप्रपञ्चभासक ईश्वरः । तदुत्थे मोहोत्थे स्वान्तेऽन्तःकरणे प्रतिफलितवपुः सङ्क्रान्तस्वरूपः अन्तःकरणावच्छिन्न इति यावत् । एवम्भूतः परात्मा प्रमातेति गीयते । स एव च जीव: वृत्त्याऽन्तःकरणपरिणामेन रूढः अवच्छिन्नश्चेत् प्रमाणं गीयते । धिषणावृत्तिसंव्याप्ते बुद्धिवृत्तिपरिच्छिन्नविषये चैत्योपाधिः चित्प्रतिबिम्बं यस्य स तादृशविषयावच्छिन्न इति यावत् फलं प्रमितिरिति । वृत्तिं विनाऽज्ञानजन्यघटादिशब्दपरिच्छिन्नस्तु प्रमेय इति परात्मा गीयते इत्यर्थः । प्रतिबिम्बासम्भवात्, वस्तुनः प्रतिबिम्बस्य भिन्नवस्तुन्येव सम्भवात् इति भावः ।
(१८) एतेन-ब्रह्म-संवेदनस्यान्तःकरणवृत्तित्वार्थकत्वेन ॥
(१९) त्रिदण्डिनस्त्विति । मायावशाद् ब्रह्मैव परिणमति इति शाङ्करीयास्त्रिदण्डिनः । आनन्दमय आनन्दात्मक इत्यर्थः । प्रचुरार्थे मयडित्यपि केचित् । तस्यैवेति जीवस्यैव, षष्ठ्यर्थः प्रतियोगित्वम् । औपाधिक: लिङ्गशरीररूपोपाधिवैशिष्ट्यावच्छिन्नप्रतियोगिताकः परमात्मभेद:=परमात्मनि भेद इत्यर्थः । स्यादेतत्-लिङ्गशरीरविशिष्टात्मनो जीवत्वेऽपि तस्य नित्यत्वेन कुतो लय इत्यत आहभेदकोपाधिविरह इति । उपाधिनाश एव जीवस्य परमात्मनि घटापगमे तदाकाशस्य शुद्धाकाश इव लय