________________
परिशिष्ट - १
दुःखादिकं नोत्पत्तुमर्हति । विशेषणमत्रावच्छेदकत्वाख्यसम्बन्धविशेषवत् आश्रयान्तर्भूतं, तन्मात्रं वा आश्रयः सर्वथैव तस्य दुःखहेतुत्वात् । एवं च तद्विगमस्य दुःखनिवृत्तिहेतुतया पुरुषार्थत्वमक्षतमेवेति । एवमपि मायाधीनस्य प्रपञ्चस्य मायानिवृत्त्यैव निवृत्तेर्मायानिवृत्तेर्मोक्षदशायामावश्यकत्वम् । अविद्यैव मायात्वेनैतन्मते परिभाषितेति फलतो न विशेषः ।
२२३
(२०) अत्र न्यायविदः - अविद्या न पदार्थान्तरम् मानाभावात्, किन्त्वदृष्टमेव तत्त्वज्ञानरूपविद्याविरोधितयाऽविद्येत्युच्यते । अदृष्टव्यक्तीनां सादित्वेऽपि तत्प्रवाहस्यानादितया अविद्याया अनादिताप्रवादः तथा च तन्निवृत्तिस्तदधीनदुःखनिवृत्तिर्वा मोक्ष इति निष्प्रत्यूहमेव ।
इत्यन्वयः । नन्वेतन्मते क उपाधिरविद्या चेदेकदण्डिमताभेद इत्यत आह- लिङ्गशरीरावच्छिन्नस्येति । एतन्मते उपाधिर्वस्तुभूत एव अयं घट इत्यादिव्यवहारं प्रति अविद्यापरिणामस्य विषयस्यैव कारणत्वात् । पूर्वमते तु उपाधिर्न वास्तवोऽवास्तवत्वं च सर्वकालवृत्त्यभावप्रतियोगित्वे सति तत्त्वेन प्रतीयमानत्वम् । तथा च तादृशव्यवहारं प्रति न विषयस्य कारणत्वं तस्यासत्त्वात्, किन्तु तत्तदाकारानादिसंस्कारस्येति मतवैमत्यम्। स्थूलशरीरबीजभूतं =स्थूलशरीराधिष्ठानकारणम् । न्यायमते आत्मैव शरीराधिष्ठानम्, एतन्मते तु लिङ्गशरीरावच्छिन्न आत्मेति विशेषः । महदिति । तन्मात्राख्या शब्दस्पर्शरूपरसगन्धाः । भूतानि आकाशवाय्वग्निजलपृथिव्यः । सूक्ष्माणि एकादशेन्द्रियाणि श्रोत्रत्वक्चक्षूरसनघ्राणवाक्पाणिपादपायूपस्थमनांसि । नाशे इति । सुखदुःखादिकं प्रति लिङ्गदेहविशिष्टस्य हेतुतया तन्नाशे दुःखादिकं शुद्धात्मनि नैवोत्पद्यते कर्णशष्कुलीविगमे शुद्धाकाशे श्रावणप्रत्यक्षमिवेत्यर्थः । (न्यायमते शरीरात्मनोर्विजातीयसंयोगवत् दुःखाद्युत्पत्तिप्रयोजकसूक्ष्मशरीरात्मनोरवच्छेदकताख्यः कश्चितसम्बन्धविशेषो वेदान्तिमतेऽङ्गीक्रियते) तद्वत् तद्विशिष्टमित्यर्थः । आश्रयान्तर्भूतं दुःखादेराश्रयैकदेशो विशिष्टस्याधिकरणत्वे विशेषणमपि तादृशसम्बन्धाधिकरणमिति भावः । ननु द्वयोरपि दुःखाश्रयत्वे " एतत्सर्वं मन एवेति" श्रुतिविरोधो गौरवञ्च स्यादत आह-तन्मात्रं वेति । लिङ्गशरीरमात्रं वेत्यर्थः । सर्वथैवाश्रयत्वेनाश्रयान्तर्भूतत्वेन चेत्यर्थः । एवञ्च दुःखं प्रति लिङ्गशरीरस्य कारणत्वादेव, लिङ्गशरीररूपोपाधिविगमस्य दुःखध्वंसहेतुततया पुरुषार्थत्वं पुरुषप्रवृत्त्युद्देश्यत्वमक्षतमेवेत्यर्थः । मतद्वयेऽविशेषं दर्शयति - एवमपीति । लिङ्गशरीरस्य दुःख निवृत्तिहेतुत्वेऽपि । आवश्यकत्वमिति । तथा च ब्रह्मसंवेदनजन्यमायानिवृत्त्यैव प्रपञ्चनिवृत्तिरिति भावः । एतेन सूक्ष्मशरीरनिवृत्त्या दुःखनिवृत्तावपि तत्कारणमायासत्त्वाऽनिवृत्त्या कथं मोक्ष ? इति परास्तम् ।
(२०) मानाभावात् = प्रत्यक्षादिप्रमाणविरहादित्यर्थः । इन्द्रियसन्निकर्षरूपकारणाभावान्न प्रत्यक्षम्, केनापि चक्षुषाऽविषयीकृतत्वात् । नापि जगत् मायोपादनकं मिथ्यात्वादैन्द्रजालिकघटादिवदित्यनुमानम् प्रमाणं, मिथ्यात्व' स्यैवासिद्धेः । न च “एकमेवाद्वितीयं, नेह नानास्ति किञ्चन' इत्यादय आगमा एवात्र प्रमाणम् तेषामीश्वरस्य स्वसजातीयविजातीयराहित्यपरत्वात् । एवं तर्ह्यविद्याशब्दस्य अनादिः प्रयोगो व्यर्थः स्यादत आह- किन्त्विति । विद्यायास्तत्त्वज्ञानस्योत्पत्तौ दुरदृष्टस्य प्रतिबन्धकत्वेन विद्याविरोधितार्थकतयाऽविद्यापदं व्याचष्टे - विद्याविरोधितयेति ।
१. ननु जगन्मिथ्या ब्रह्मातिरिक्तत्वादित्यनुमानेन मिथ्यात्वसिद्धेः कथं नानुमानं प्रमाणमिति चेन्नाप्रयोजकत्वादन्यथा जगत् सत् कालनिष्ठाभावप्रतियोगित्वे सति ब्रह्मातिरिक्तत्वाद् इत्यनुमानमृतत्वमेव किन्न बोधयेत् ? ।