________________
२१४
मुक्तिवादः
बाधकग्रस्तस्य कार्यतानवच्छेदकत्वात् । अन्यथा पुरुषान्तरीयदुःखासमानकालीनदुःखध्वंसत्वादेरपि किञ्चित्कारणकार्यतावच्छेदकत्वापातात् ।
(७) मैवम्। अर्थसमाजस्थले हि साधकाभाव एव कार्यतावच्छेदकत्वबाधकः उपदर्शितमुक्तित्वावच्छिन्नं प्रति तत्त्वज्ञानहेतुतायाः श्रुतिस्मृत्यादिसाक्षिकतया न बाधः । मा भूद्वा तादृशमुक्तित्वावच्छिन्नं प्रति कारणता तथापि तदवच्छिन्ने तत्त्वज्ञानस्य प्रयोजकत्वं दुर्वारमेव, तत्त्वज्ञानं विना पापप्रवाहविच्छेदस्यासम्भवेन दुःखानुवृत्तेरावश्यकतया दुःखध्वंसे दुःखसमानकालीनत्वानिर्वाहात् । येन विना यद्धर्मावच्छिन्नानिर्वाहस्तस्यैव तदवच्छिन्नप्रयोजकत्वात् । प्रयोजकत्वञ्च स्वरूपसम्बन्धविशेषः । इष्टप्रयोजकत्वाज्ञानमेवोपायेच्छाहेतुरिति मुमुक्षया तत्त्वज्ञानेच्छानिर्वाहः । 'दुःखेनात्यन्तं विमुक्तश्चरति ' 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत' इत्यादिश्रुतिवाक्यानि च तत्त्वज्ञानवतां दुःखात्यन्तविमुक्तिविबोधकानि विमुक्तिप्रयोजकत्वपराण्येवेति ।
(८) यत्तु दु:खानुत्पाद एव मोक्षः स च प्रागभावरूपतयाजन्योऽपि तत्त्वज्ञानादिसाध्यः, क्षेमसाधारणसाधनताज्ञानस्यैव च प्रवर्तकत्वम्, दुःखं मे मा भूदित्युद्दिश्य वैदिके प्रायश्चित्तादौ लौकिके
वारणाय-स्वसमानाधिकरणेति । इदानीन्तनदुः खध्वंसे ऽतिव्याप्तिवारणार्थं दुःखप्रागभावसमानकालीनेति । अर्थसमाजरूपेति । क्लृप्तसामग्रीसंवलनप्रयोज्यस्वघटकविशेषणविशिष्टक्लृप्तसामग्रीरूपार्थसमाजग्रस्ततया न तत्त्वज्ञानजन्यतावच्छेदकत्वमुक्तापवर्गत्वस्येति बाधकसत्त्वादेवोक्तकार्यकारणभावासम्भव इति तात्पर्यम् । १
(७) सिद्धान्तमाह- मैवमिति । न बाध इति । स्वतन्त्रप्रमाणस्य श्रुतिस्मृतिरूपस्य शब्दस्य साधकत्वादिति भावः। साधकाभावरूपबाधकासत्त्वेऽपि निष्प्रयोजनत्वगौरवरूपबाधकद्वयमस्त्येवेत्याशङ्क्याह-मा भूद्वेति । स्वरूसम्बन्धविशेष इति । यथा दण्डाभावाद्धाभाव इत्यादौ दण्डाभावाद्यन्वयी पञ्चम्यर्थः । तन्निष्ठान्यथासिद्धिभिन्नान्यथासिद्धिशून्यत्वे सति कार्याव्यवहितपूर्ववृत्तित्वमिति नव्याः । नन्वेवं तत्त्वज्ञानस्य मोक्षसाधनत्वप्रतिपादकश्रुतीनामप्रामाण्यप्रसङ्गः स्यादतस्तासामपि प्रयोजकत्वमेवेत्याशयेन समाधत्ते-दुःखेनेत्यादि । तृतीयार्थः प्रतियोगित्वम् । मुच्- धात्वर्थो नाशः । स्वसमानाधिकरणदुःखासमानकालीनार्थकात्यन्तपदं च क्रियाविशेषणम् । तथा च दुःखप्रतियोगिकात्यन्तनाशाश्रयश्चरति तिष्ठतीत्यर्थः । अशरीरमिति । वावेति सम्बोधनम् सन्तमात्मानम् । तथा च तत्त्वज्ञानादिना शरीररहितमात्मानं प्रियाप्रिये सुखदुःखे न स्पृशत: - न सम्बध्नीत इत्यर्थः । आचार्यास्तु वावसन्तमिति यङ्लुकि सिद्धम्, छान्दसत्वान्नकारागमश्च । तथा च शरीररहितं सत् अतिशयेन वसन्तं उत्तरावधिराहित्येन वसन्तमिति यावत् । तेन संसारिणोऽपि क्षणं शरीरराहित्येन स्थितिसम्भवेऽपि न क्षतिरित्याहुः । प्रयोजकत्वपराण्येवेति एतेन तत्त्वज्ञानकारणताबोधकवेदान्तिमतदूषणानामप्यसम्भवोऽत्र मते सूचितः ।
(८) दुःखध्वंस एव मुक्तिरिति प्रथमकल्परूपसिद्धान्तमतं दृढीकृत्य दुःखप्रागभाव एव मुक्तिरिति द्वितीयकल्पाक्षिप्तं प्राभाकरमतं निराकर्तुं तद्व्यवस्थापयति-यत्त्विति । साध्य: - निर्वाह्यः ।
१. अथेत्यादि दृश्यन्त इत्यन्तः पाठो मुद्रितपुस्तके नोपलभ्यते सरलश्चेति टीकायामुपेक्षितो वेदितव्यः ।