________________
परिशिष्ट-१
२१३
(५) अथ दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते ।
न हि मूर्छाद्यवस्थायां प्रवृत्तो दृश्यते सुधीः ॥ इति न मुक्तिज्ञानं सम्भवतीति चेन्न । न हि दुःखाभावं जानीयामित्युद्दिश्य प्रवृत्तिः, किन्तु दुःखं मे माभूदित्युद्दिश्य स्वत एव बहतरदःखजर्जरकलेवरा द:खाभावमद्दिश्य मरणे प्रवर्तमाना दृश्यन्ते ।।
(६) अथ दुःखनिवृत्तिः दुःखस्य ध्वंसरूपोऽभावः, न तु प्रागभावात्यन्ताभावौ नित्यत्वेनाऽसाध्यत्वात् ध्वंसस्य चाऽनन्तरोत्पन्नविशेषगुणादेव सम्भवेन न तत्त्वज्ञानाद्युपयोगः। ननु स्वसमानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वरूपात्यन्तिकत्वाविशेषितदुःखध्वंसत्वरूपापवर्गत्वावच्छिन्नत्वस्य तत्त्वज्ञाननिरपेक्षकारणान्तरान्न निर्वाह इति चेदेवमपि न तादृशधर्मस्य तत्त्वज्ञानजन्यतावच्छेदकत्वसम्भवः । चरमदुःखध्वंसदशायां तद्वत्यात्मनि दुःखजनकाधर्मरूपकारणविरहेण दुःखानुत्पत्त्याऽर्थवशादेव तस्य स्वसमानाधिकरणदुःखाऽसमानकालीनत्वनिर्वाहात् । अर्थसमाजरूप
इत्यतः सामग्री विभज्य विवेकिनान्तदभावं दर्शयति-विवेकिनान्त्विति । विवेकिनां दुःखबहुलतया सुखे नोत्कटराग इति तदभावेऽपि प्रवृत्तिप्रतिबन्धात् इति भावः । स्यादेतत्-ऐहिकं सुखं तावत् बहुतरदुःखानुविद्धतया विवेकिनां प्रवृत्त्यजनकमस्तु स्वर्गसुखस्य दुःखासम्भिन्नतया तत्रोत्कटेच्छा जायते एव इत्यत आह-स्वर्गेऽपीति । क्षीणे पुण्ये मर्त्यलोकं विशन्तीति भगवदुक्तेः । क्षयितयेति । 'दृशवदानश्रविकः स ह्यविशद्धिक्षयातिशययक्त इति कपिलोक्तेः । प्रवत्तिनिवत्तिभ्यामिति । कल्पना चात्रानुमानम् । तद्यथा रागनिष्ठप्रवृत्तिजनकत्वं किञ्चिदवच्छिन्नं जनकतात्वात्, घटजनकतावत् । न चेच्छात्वावच्छिन्नं तत्सम्भवति अनुत्कटेच्छायामिच्छात्वस्य तादृशजनकताव्यभिचारात् । तथा चेच्छात्वावच्छिन्नत्वस्य बाधनिश्चयात्तदवान्तरधर्मावच्छिन्नत्वसिद्धिः । स च धर्मो बाधकाभावाज्जातिरेवेति । तन्नियामिकेति । उत्कटरागद्वेषनियामिके त्यर्थः । तत्तज्ज्ञानव्यक्त्येति । प्रतिबन्धकाभावरूपकारणस्य प्रतियोगिविधया बहुतरदुःखानुविद्धत्वादिज्ञानव्यक्त्येत्यर्थः । अननुगतैवेति । तथा च फलदर्शनादर्शनाभ्यां सामग्र्याः सत्त्वासत्त्वे कल्पनीये इति भावः । तादृशज्ञानाभावत्वेनानुगतकारणताकल्पने बाधकमाह-तुल्येऽपीति । तथा च विवेकिनिष्ठबहुतरदुःखानुविद्धत्वपातभयादिजन्यदुःखानुविद्धत्वादिज्ञानव्यक्तेरेव सुखे उत्कटरागं तदभावे उत्कटद्वेषं च प्रति प्रतिबन्धकत्वं कल्पनीयम्, न तु विषयिनिष्ठतादृशज्ञानव्यक्तेरिति हृदयम् ।
__ (६) ननु अस्तु उक्तयुक्त्या मोक्षोपाये प्रवृत्तिः, किन्तु मोक्षो यदि क्लृप्तोपायसाध्यः स्यात्, भवेच्च यदि मुक्तित्वं जन्यतावच्छेदकं तदा तदुपाये योगाभ्यासादौ प्रवृत्तिरुपपद्यत इति आशयेनाशङ्कतेअथेति । अत्यन्तदुःखनिवृत्तिरूपमुक्तिपदार्थे दुःखनिवृत्तिशब्दार्थस्य कल्पत्रयेणासम्भवं दर्शयतिध्वंसरूपोऽभाव इति । प्रागभावात्यन्ताभावयोः नित्यत्वेन प्रागभावाप्रतियोगित्वेनासाध्यत्वात् अजन्यत्वात् । तथा चाजन्यस्य प्रवृत्त्यनुद्देश्यत्वान्न तमुद्दिश्य योगाद्युपाये प्रवृत्तिरिति कल्पद्वयनिरासः । ध्वंसपक्षे तदव्यवहितोत्तरोत्पन्नविशेषगुणादेव दुःखध्वंससम्भवेन न तत्र तत्त्वज्ञानाद्युपायापेक्षेति भावः । कारणत्वकुक्षिप्रविष्टान्वयव्यतिरेकव्याप्तिघटितान्वयव्यतिरेकव्यभिचारासम्भवात् तत्त्वज्ञानस्यात्यन्तदुःखनिवृत्तिरूपापवर्गत्वावच्छिन्नं प्रति कारणत्वे को दोष इत्याशयेनाक्षिप्य समाधत्ते-नन्विति । स्वपदं दुःखध्वंसपरम् । प्रलयकालीनदुःखध्वंसानां पुरुषान्तरीयदुःखप्रागभावसमानकालीनतया तत्राव्याप्ति