________________
२१२
मुक्तिवादः
वरं वृन्दावने ( रम्ये) शून्ये शृगालत्वं वृणोम्यहम् । न तु वैशेषिकी मुक्तिं प्रार्थयामि कदाचन ॥
इत्यादि वदन्तो नात्राधिकारिणः ये च विवेकिनोऽस्मिन् संसारकान्तारे कियन्ति दुःखदुर्दिनानि कियती वा सुखखद्योतिका इति कुपितफणिफणामण्डलच्छायप्रतिममिदमिति मन्यमानाः सखमपि हातमिच्छन्ति तेऽत्राधिकारिणः" इति । विवेकिनान्तु बहुतरदुःखानुविद्धतया सुखे नोत्कटराग इति तदभावेऽपि नोत्कटद्वेष इति बलवदद्वेषविषयसाधनत्वस्यैव प्रवत्तिविरोधितया मोक्षोपाये न प्रवृत्त्यनुपपत्तिः । स्वर्गेऽपि पातभयादिजन्यदुःखानुविद्धतया क्षयितया च न विवेकिनामुत्कटो रागः । रागद्वेषयोरुत्कटत्वं जातिविशेषः प्रवृत्तिनिवृत्तिभ्यां कल्पनीयः । तन्नियामिका च सामग्री तत्तज्ज्ञानव्यक्त्यादिघटिताऽननुगतैव, तुल्येऽपि बहुतरदुःखानुविद्धत्वादिज्ञाने सुखतदभावयोर्विषयिणामुत्कटरागोत्कटद्वेषोदयात् विवेकिनान्तदनुदयात् ।
सामान्यभावाच्च । नन्वपवर्गे मा भूद्वेषः किन्तु तत्साधकयोगाभ्यासादौ तु स्यादेव सुखसाधन
नाशकतत्त्वज्ञानोत्पादनद्वारा सुखाभावरूपद्विष्टसम्पादकत्वात्, तथा चेच्छायां द्वेषसामग्र्याः प्रतिबन्धकत्वेन तत्रेच्छाऽसम्भवेन योगाभ्यासादौ प्रवृत्तिर्न स्यादित्याशयेनाशङ्कते-नन्विति । सुखेषूत्कटरागिणां तत्रेष्टापत्त्या परिहरति-सुखेष्वित्यादि । तेषां सुखाभावे द्वेषस्यावश्यम्भावेन मुक्त्युपाये योगाभ्यासादौ प्रवृत्तिप्रतिबन्ध एवेत्यर्थः । तत्रापसिद्धान्तत्वशङ्कां निराकर्तुं चिन्तामणिकारमतमाहतदुक्तमिति । तस्मादिति । दुःखाभावदशायां सुखं नेति ज्ञानस्य दुःखाभावार्थिप्रवृत्तिप्रतिबन्धकत्वादित्यर्थः । अस्य ते अत्राधिकारिण इत्यत्रान्वयो बोध्यः । बहुतरदुःखानुविद्धमिति । बहुतरदुःखजनकसामग्रीनियतसामग्रीसम्पाद्यत्वेन तत्संवलितमिति भावः । शिर इति ।
युष्मत्कृते खञ्जनमञ्जुलाक्षि । शिरो मदीयं यदि याति यातु ॥ नीतानि नाशं जनकात्मजार्थे । दशाननेनापि दशाननानि ॥ इति ॥
एतेन बहुतरदुःखानुविद्धत्वज्ञानमस्ति तत्रेति व्यञ्जितम् । वैशेषिकी-वैशेषिकशास्त्रप्रसिद्धाम् । वदन्त इत्यनेन सुख एवोत्कटेच्छा प्रदर्शिता । स्यादेतत् सर्व एव शरीरिणो यदि सुखमेवेच्छन्ति तदेदृङ्मुक्तिनिरूपणं व्यर्थमापतितम् तद्विरोधिन्यपवर्गे कस्यापि कामनाऽनुदयेनाधिकारिणामेवाभावात् अत आह-ये चेति । विवेकिनः-सांसारिक सुखमोक्षयोः हेयत्वोपादेयत्वादिविवेचनसमर्थाः । संसारकान्तारे संसार एव कान्तारं तस्मिन् स्त्रीपुत्रादिरूपदुर्गवर्त्मनि । दुर्गमत्वं चास्येष्टवियोगादिरूप कण्टकाद्यावृतत्वेन कामादिरूपदस्युमत्त्वेन च बोध्यम् । दुःखेषु दुःखेतरसाक्षात्काराद् व्यभिचारिकत्वमधिकतरत्वं च दुर्दिनसाम्यप्रयोजकम् सुखेषु इतरज्ञानानभिभावकत्वम् अल्पीयस्त्वं च खद्योतसाम्यनिर्वाहकं बोध्यम् । खद्योतिका इत्यनन्तरं ज्ञानेनेति पूरणीयम् । तादृशज्ञानार्थकञ्चेतिपदं मन्यमाना इत्यनेनान्वयनीयम् । कुपितेत्यादि । कुपितो यः फणी सर्पस्तस्य यत् फणामण्डलं तस्य छायया प्रतिमं तुल्यमित्यर्थः । कुपितपदेन यथा कश्चित् पान्थ इतस्ततो भूरिभ्रमणश्रान्तो दुःसहार्क किरणसमूहसन्तापशान्तीच्छयोक्तविधच्छायामाश्रित्य दुःखातिशयाभिभूतो जायते तथैव संसारश्रितोऽपीति अवश्यम्भाविदशनजन्यदुःखभागित्वं व्यञ्जितम् । अधिकारिण इत्यन्तो मणिग्रन्थः । ननु विषयिणामिव विवेकिनामपि मोक्षोपाये प्रवृत्तिर्न जायेत सामग्रीसाम्येन फलोदयस्यानिवार्यत्वात्