________________
परिशिष्ट-१
२११
(४) न चापवर्गस्योक्तरूपस्य सुखविरोधितया न पुरुषार्थत्वसम्भवः, सुखाभावनियतत्वेऽपि दुःखाभावत्वेनात्यन्तिकत्वाविशेषितेन च तद्विशेषितेन च तत्तेच्छोत्पत्तौ बाधकाभावेन प्रयोजनत्वोपपतेः । न च सुखाभावनियतत्वेन द्वेषसम्भवात् तत्र नेच्छासम्भव इति वाच्यम् । स्वतः प्रयोजनस्य द्वेषविषयत्वायोग्यत्वात् । ननु धर्मादिनाशकतत्त्वज्ञानद्वारा सुखनिवृत्तिसाधकत्वेन मोक्षोपाये योगाभ्यासादौ द्वेषसम्भवाद्विशेषदर्शिनां प्रवृत्त्यनुपपत्तिरिति चेत् । सुखेषूत्कटरागवतां विषयिणां सुखाभावे उत्कटद्वेषोदयेन मोक्षोपाये न भवत्येव प्रवृत्तिः । तदुक्तं मणिकृता 'तस्मादविवेकिनः सुखमात्रलिप्सवो बहुतरदुःखानुविद्धं सुखमुद्दिश्य "शिरो मदीयं यदि याति यातु" इति कृत्वा परदारादिषु प्रवर्तमाना
पूर्वोक्तादृष्टान्ततादूषणस्य तादवस्थ्यात् । कार्यमात्रवृत्तित्वादिति । तच्च कार्येतरावृत्तित्वे सति कार्यवृत्तित्वम्, गुणत्वादौ व्यभिचारनिरासाय सत्यन्तं विशेषणम् । गगनत्वादौ व्यभिचारवारणाय च विशेष्यदलम् । ननु घटत्वादौ साध्यस्य सन्दिग्धतया व्यभिचारसन्देहेन व्याप्तिरेव कथं गृहीता स्यादित्यत आह-सन्ततित्वाद्वेति । सन्ततित्वं च जातिविशेषो तत्तद्वर्तिजन्यदीपसमुदायवृत्ति 'एष दीप' इत्यनुगतप्रतीतिसाक्षिकः प्रसिद्ध एव । नानेति । स्वेतरत् स्वसमानाधिकरणं स्वोत्पत्तिक्षणोत्पत्तिकं च यत् तदवृत्तित्वे सति कार्यवृत्तित्वम् तदर्थः । कार्यपरगुणत्वादिकमादाय व्यभिचारवारणाय सन्त्यतम् । हेत्वसिद्धिं निराकर्तुं स्वेतरेति । अन्यदीयतत्कालोत्पन्नदुःखमादाय स्वरूपासिद्धिनिवारणाय स्वसमानाधिकरणेति । विभिन्नकालीनस्वसमानाधिकरणदुःखमादायोक्तदोषनिरासार्थं स्वोत्पत्तिक्षणेति । न चात्रानुमानेऽप्रयोजकत्वशङ्कापिशाची प्रसरति प्रधानकारणोच्छेदे सन्तत्याश्रयदीपादेरत्यन्तोच्छेददर्शनात्, प्रकृतेऽपि दुःखमूलस्यात्मनि शरीराद्यभेदवासनाया श्रवणादिभिरुच्छेदसम्भवेन तदुत्तरं दुःखसत्त्वे सन्ततित्वं यदि सन्तत्याश्रयासमानकालीनध्वंसप्रतियोगिवृत्तिवृत्तित्वव्यभिचारि स्यात् तदा चिरमूलोच्छेदकालीनवृत्तिवृत्ति स्यादिति प्रसङ्गस्यैव प्रयोजकत्वात् इति ध्येयम् । आत्मेति । लिङ्वत् तदर्थे विहितस्य तव्यप्रत्ययस्यापि स्वघटितवाक्योपस्थापितार्थवादबोध्यत्वरूपेष्टसाधनत्वबोधकतानियमेनात्राऽपि अत्यन्तशरीरसम्बन्धाभावरूपेष्टसाधनज्ञानविषय आत्मेति तदर्थः । न स पुनरावर्तत इत्यादिनोक्तरूपेष्टसाधनत्वस्यैव बोधनात् । आवर्तत इत्यस्यार्थमाह-शरीरीभवतीति । न पुनर्देहेन्द्रियादिसम्बन्धादात्मनो भोग इत्यर्थः ।
(४) ननु गुरुजनसम्भाषणादौ यथा कामिनीसम्भोगजन्यसुखविरोधितया नेच्छा तथा सुखप्रतिबन्धिनि अपवर्गे नेच्छा स्यात् इत्याह-न चेति । उक्तरूपस्य दुःखध्वंसरूपस्य । सुखविरोधितयेति । सुखविरोधता च सुखावच्छेदककालावच्छिन्नतदधिकरणवृत्तित्वाभावरूपसुखाभावव्याप्यताबाधकाभावेन, कारणविरहासत्त्वेनेति तात्पर्यम् । समाधत्ते-सुखाभावेति । साङ्ख्यमते नाह-तद्विशेषितेनेति । तथा च साङ्ख्यसूत्रम् “तदत्यन्तविमोक्षोऽपवर्ग:"। प्रयोजनत्वोपपत्तेः प्रवर्तकेच्छाविषयत्वोपपत्तेः । ननु दुःखाभावत्वेनेच्छोत्पत्तावपि तत्र सुखाभावस्य नियततया द्वेषसम्भवान्नेच्छासम्भव इत्याशयेनाशङ्क्ते-न चेति । तत्र दु:खध्वंसरूपमुक्तौ । द्वेषसामग्र्या इच्छां प्रति प्रतिबन्धकत्वादिति भावः । द्वेषविषयत्वायोग्यत्वादिति । स्वतःप्रयोजनस्य स्वतोद्विष्टप्रतियोगिकस्य स्वतोद्वेष्यत्वाभावात् भावाभावयोरेकधर्मकत्वासम्भवात् द्विष्टसाधनताज्ञानघटित