________________
२१०
मुक्तिवादः
(३) मुक्तौ प्रमाणन्तु-दुःखत्वं देवदत्तदुःखत्वं वा स्वाश्रयाऽसमानकालीनध्वंसप्रतियोगिवृत्ति कार्यमात्रवृत्तित्वात् सन्ततित्वाद्वा एतत्प्रदीपत्ववत् । सन्ततित्वं च नानाकालीनकार्यमात्रवृत्तित्वम् । “आत्मा ज्ञातव्यो न स पुनरावर्तत" इति श्रुतिश्च प्रमाणम् । आवर्तते शरीरीभवति इत्यर्थः ।
अत्रायमनुगमप्रकारः । इच्छाविशिष्टेच्छाविषयत्वं स्वतःप्रयोजनत्वम् । वैशिष्ट्यञ्च स्वविशिष्टेच्छाप्रयोज्यसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेन । वैशिष्ट्यं स्वभिन्नत्वस्वसामानाधिकरणोभयसम्बन्धेन । स्वद्वयं प्रथमेच्छापरम् । ईश्वरेच्छाया ईश्वरेच्छाविशिष्टत्वेन तद्विषयत्वमादाय घटादावतिव्याप्तिचारणाय स्वभिन्नत्वनिवेशः । जीवेश्वरेच्छाभेदाङ्गीकारे तद्दोषतादवस्थ्यमतः सामानाधिकरण्येति । उभयसम्बन्धनिवेशे ईश्वरेच्छाया धर्तुमशक्यत्वान्न दोषः मम सुखं भूयादितीच्छाया आत्मादेविषयत्वमादाय तत्रातिव्याप्तिवारणाय साध्यत्वेन विषयत्वनिवेशश्चात्र द्रष्टव्यः । एतेन स्वत्वस्याननुगमान्न लक्षणासम्भवदोष इति । सुखस्यापि योग्यविभुविशेषगुणतया दुःखनाशं प्रति हेतुतया तत्राव्याप्तिवारणायान्तरेति । तदर्थश्च मुख्यप्रयोजनदुःखध्वंसभिन्नत्वम् । तथा च दु:खध्वंसभिन्नप्रयोजनाजनकत्वे सतीति लाभः । प्रयोजनत्वमिति । तच्च प्रवृत्त्युद्देश्यत्वं प्रवृत्तिजनकेच्छाविषयत्वमिति यावत् । दुःखाभावसाक्षात्कारादावतिव्याप्तिवारणाय तन्निवेशः । तत्प्रयोजनत्वस्य चाग्रे "दुःखं मे मा भूदित्युद्दिश्यैव प्रवर्तते न हि दुःखाभावं जानीयामि''त्यादिना मणिकारेण मुक्तिवादे खण्डितत्वात् । प्रवृत्त्युद्देश्ये घटादावतिव्याप्तिवारणाय सत्यन्तनिवेशः । सुखेऽव्याप्तेरिति । एतच्च स्वमतमादाय । प्राचीनमते सुखसाक्षात्कारस्याप्रयोजनत्वात् । एतच्च मुक्तिवादचिन्तामण्यादौ स्पष्टम् । दुःखासम्भिन्नेति । असंभिन्नम् असम्मिश्रम् । तत्त्वञ्च दुःखविशिष्टान्यत्वम् । वैशिष्ट्यञ्च स्वावच्छेदकीभूतशरीरावच्छिन्नत्त्वस्वाव्यहितोत्तरत्वोभयसम्ब्धेन । अनन्तरजायमानदुःखाग्रस्तत्वम् इति यावत् । तथा चोक्तम्
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतञ्च तत्सुखं स्व:पदास्पदम् ॥ इति ।
अभिलाषोपनीतत्वञ्च स्वप्रयोजककामनाप्रयोज्यत्वम् । अत्र दुःखासम्भिन्नत्वादिकं प्रत्येकं स्वर्गलक्षणम्, तेन नित्यसुखाभिव्यक्तिर्मुक्तिरिति मते नित्यसुखे नातिव्याप्तिरिति भावः ।
(३) मुक्तौ मणिकारोक्तमनुमानं प्रमाणमाह-दुःखत्वमित्यादिना । दुःखत्वपक्षानुमाने निखिलप्राणिनां भोगनिवृत्त्या तज्जनकादृष्टनिवृत्त्या च दुःखध्वंसे दुःखत्वावच्छिन्नासामानाधिकरण्यं बोध्यम् । ननु सर्वः कालो भोगवानदृष्टवान् वा कालत्वादेतत्कालवदित्यनुमानेन सर्वदा भोगादृष्टादिसिद्धौ कथमुक्तासामानाधिकरण्यमित्यत आह-देवदत्तदुःखत्वं वेति । एतेनाखिलजीवानां मोक्षसिद्धौ सर्वानुभवसिद्धभोगादृष्टादिप्रवाहस्यानन्तत्वभङ्गप्रसङ्गरूपं प्रथमपक्षे दूषणं निरस्तम् । अत्र स्वतादात्म्यस्वविशिष्टध्वंसप्रतियोगिवृत्तित्वोभयसम्बन्धेन धर्मस्य साध्यतेति तात्पर्यम् । स्वपदं धर्मपरम् । ध्वंसे स्ववैशिष्ट्यञ्च स्वाश्रयसमानकालीनत्वसम्बन्धावच्छिन्नावच्छेदकताकभेदवत्त्वसम्बन्धेन । अन्यथा स्वत्वस्याननुगततया यदि स्वपदेन दुःखत्वं ध्रियते तदा एतत्प्रदीपत्वादेरपि दुःखत्वाश्रयसमानकालीनध्वंसप्रतियोगिवृत्तित्वरूपसाध्यस्य सन्दिग्धतया दृष्टान्तत्वानुपपत्तिः । यदि चैतत्प्रदीपत्वं गृह्यते तदा सिद्धसाधनमर्थान्तरतापातश्चेति । प्राचामभिप्रेतमनुगतमखण्डोपाधिरूपं वा स्वत्वमप्रामाणिकतया दुर्वचमेव । पक्षतावच्छेदकहेतुतावच्छदेकसाधारणमिदं साध्यकोटिप्रविष्टमित्यपि न वाच्यम्