________________
परिशिष्ट-१ श्रीढुण्डिराजशास्त्रीकृत 'चन्द्रिका' व्याख्या समेतः
__ मुक्तिवादः (१) प्रयोजनमुद्दिश्यैव पुमांसस्तदुपाये प्रवर्त्तन्ते, अतः शास्त्रस्य प्रयोजनं प्रथमतः प्रदर्शयन्ति शास्त्रकृतः।
(२) तत्र स्वतःप्रयोजनं सुखं तद्भोगो दुःखाभावश्च । तत्त्वञ्चाऽन्येच्छानधीनेच्छाविषयत्वम्, न तु प्रयोजनान्तराजनकत्वे सति प्रयोजनत्वम्, सुखसाक्षात्काररूपभोगं प्रति विषयतया जनके सुखेऽव्याप्तेः । गौणप्रयोजनञ्चान्येच्छाधीनेच्छाविषयो भोजनादिः, तत्र सुखादिरूपफलानुसन्धानादेवेच्छोत्पत्तेः । दुःखासम्भिन्नसुखरूपतया स्वर्गस्येवाऽऽन्वीक्षिक्यादिशास्त्रफलस्याप्यपवर्गस्यात्यन्तिकदुःखनिवृत्तिरूपस्य स्वत एव प्रयोजनत्वम् ।
भूतिमानप्यभूतिर्यो भूतिं जगति तन्वति । तं वन्दे भवसंमोहहानयेऽखिलकारणम् ।। नत्वा गुरुपदद्वन्द्वं नाथान्त्यबटुकाह्वयम् ।
क्रियते मुक्तिवादस्य विवृतिश्चन्द्रिकाभिधा । (१) इह खलु शास्त्रकृतो मुनयोऽपि शास्त्रादावपवर्गं प्रायशः तत्प्रयोजनं दर्शनयन्ति तत् किमर्थमित्याशङ्कानिरासो शास्त्रकृत इत्यन्तेन ग्रन्थेनाविष्कृतः । प्रयोजनमिष्टम्, उद्दिश्य-तत्साधनत्वेन निर्णीय, पुंमासः कृतिसाध्यताज्ञानवन्तः समर्था इति यावत् । तेन स्त्रीणामपि सङ्ग्रहोऽन्यथा तासामपि तादृशप्रवृत्तिदर्शनात्तव्यावृत्त्या न्यूनता स्यात् । शास्त्रकृतः गौतमादयः । शास्त्रप्रयोजनादर्शने प्रयोजनसाधनत्वाज्ञानेन परस्याप्रवृत्तौ परप्रतिपत्तिमात्रफलकशास्त्रकरणस्य निष्फलत्वापत्तेस्तथा चाधिजिगांसूनां ग्रन्थापादनकप्रवृत्तिरेव प्रयोजनप्रदर्शनस्य फलमिति भावः । (प्र.) ननु तथापि नात्र प्रयोजनं प्रदर्शितं गदाधरेणेति न्यूनत्वमेवास्य ग्रन्थस्येति वाच्यम्, (उ.) एतद्ग्रन्थस्य भगवद्गौतमप्रणीतशास्त्रपदार्थप्रतिपादकत्त्वात्तच्छास्त्रप्रयोजनमेवास्य प्रयोजनमिति ज्ञाप्यतेऽतो मुक्तिज्ञानद्वारा तत्प्रवर्तकस्य मुक्तिनिर्वचनस्याऽस्य ग्रन्थस्यापवर्गप्रयोजनत्वं स्फुटमेवेति न न्यूनतेति भावः ।
(२) अपवर्गे मुख्यप्रयोजनत्वं व्यवस्थापयितुं मुख्यं गौणञ्चप्रयोजनं लक्षयति-तत्रेति । तत्र तेषु
मध्ये स्वतःप्रयोजनं स्वतः प्रयोजनपदार्थः। सखं तद्धोगो द:खाभावश्चेति लक्ष्यनिर्देशः । तद्भोगः सुखसाक्षात्कारः । ननु सुखसाक्षात्कारः कथं मुख्यप्रयोजनम्, सुखं मे भवत्वितीच्छाया एव प्रवर्तकत्वात्, न तु सुखं जानीयामितीच्छायास्तथा च तस्य लक्ष्यत्वमसङ्गतमिति चेन्न, सुखेच्छाया इव तत्साक्षात्कारेच्छाया अपि अनुभवसाम्येन प्रवृत्तिजनकत्वात्, अन्यथा दुःखाभावस्यापि प्रवृत्त्यजनकत्वापत्त्या स्वतःप्रयोजनत्वानुपपत्तिः, नित्यसुखसाक्षात्कारो मुक्तिरिति भट्टमतासङ्गतिश्च स्यात् । तस्य स्वत:प्रयोजनत्वाभावे तदुपाये योगाभ्यासादौ प्रवृत्त्यनुपपत्तेरति गदाधरभट्टाचार्याणामाशयः । अन्येच्छानधीन इति । स्वान्या स्वसमानाधिकरणा या इच्छा तदप्रयोज्याया इच्छायाः साध्यत्वेन या विषयता तदाश्रयत्वमित्यर्थः । स्वं द्वितीयेच्छा ।