Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 267
________________ २३६ मुक्तिवादः (४४) काशीमरणमात्मतत्त्वज्ञाने तारकोपदेशसम्पादनेनैवापेक्षितम् काशीमरणोत्तरमेव च कर्णे भगवान् तारकमुच्चरति । तच्चोच्चारणं तच्छरीरावच्छेदेन ज्ञानमनुत्पाद्यापि अदृष्टद्वारा तदुत्तरगृहीतशरीरावच्छेदेनात्मतत्त्वज्ञानमुत्पादयतीत्यपि केचित् । काशीगङ्गामरणादीनामदृष्टद्वारा संवलनसम्भवेऽपि उक्तयुक्तेर्वैकल्पकी कारणतैव तृणादीनां वह्नरिव । (४५) न चैवं संवलितयोर्तीहियवयोरिव काशीगङ्गामरणयोः फलानुत्पादकत्वप्रसङ्ग इति वाच्यम् । वैषम्यात् । तथाहि-व्रीहियवयोरेकप्रकरणे क्रमेण यागसाधनताया विधानाद्यवसाधनत्वेन प्रथमतो लाभे साधनान्तराकाङ्क्षानुदयात् व्रीह्यकरणको यागः किंकरणकः फलसाधनमिति विकल्पमुख्याकाङ्क्षयैव यवविध्युत्थापनं वाच्यम्, तादृश्याकाङ्क्षया व्रीहिकरणकत्वाभावविशिष्टविशेषरूपावच्छिन्नतदितरकारणकत्वविशिष्टयागे फलसाधनताबोधविषयकत्वात् । वाकाराध्याहारेण यवैर्यजति इति वाक्यात् व्रीहिकरणकत्वाभावयवकरणकत्वरूपोभयविशेषणविशिष्टयागविषयक एव साधनताबोधः स्वीकरणीयः । विशिष्टे च यस्य कार्यस्य साधनतयान्वयो विशेषणस्य तत्कार्यप्रयोजकत्वे वेदस्य तात्पर्यमौत्सर्गिकमिति व्रीहिभिर्यजेतेत्यतो व्रीहिकरणस्यैव यवैरित्यतश्च यवकरणकस्यैव ततो व्रीहिकरणकत्वरूपविशेषस्यापि फलोपयोगित्वं प्रतीयत इति उभयोरशास्त्रार्थता । (४६) प्रकृते च प्रकरणभेदात् विधिप्रवृत्तेः पौर्वापर्यानियमेन मोक्षस्य किं साधनमित्येतावन्मात्राकाङ्क्षयैव साधनत्वेनैव गङ्गामरणकाशीमरणादीनां विधानादितरासाहित्यविशिष्टानामेव तेषां मोक्षसाधनतया प्रतीतेः काशीमरणगङ्गामरणभगवन्नारायणस्मरणरूपसंवलनेऽपि फलसिद्धिनिष्प्रत्यूहैवेति । परस्पराभावसापेक्षतया यथा व्रीहियवयोविरुद्धरूपता तथा न प्रकृते, अपि तु वाजपेयाश्वमेधादिवत् पृथक्कल्पतैव, विकल्पे उभयोरशास्त्रार्थताप्रवादश्च विरुद्धकल्परूपविकल्पादरः तत्र पृथक्कल्परूपविकल्पपरः । (४४) अस्मिन्मते गङ्गाजलसम्बन्धेन मृतशरीरेऽदृष्टोत्पत्तिवज्ज्ञानोत्पत्तिरिति भावः । अत्र च मते उपदेशस्य शब्दात्मकतया मृतात्मन्यदृष्टजनकत्वे तदवच्छेदकसम्बन्धस्य दुर्वचता, कथञ्चिच्छरीरान्तरग्रहणेन निर्वाच्यत्वे गौरवं मोक्षानुपपत्तिश्चेत्यस्वरसो बोध्यः । (४५) वैकल्पिकहेतुतायां संवलिताभ्यां फलानुत्पत्तिमाशङ्कते-न चेति । समाधत्ते-वैषम्यादिति । वैषम्यमेव स्फुटयति-तथा हीति । एकप्रकरणे-दर्शपौर्णमासयागैकप्रकरणे । आकाङ्क्षानुदयादिति । यवसाधनत्वज्ञानस्य प्रतिबन्धकत्वादित्यर्थः । व्रीह्यकरणक इति । तथा च सामान्यतो यागे व्रीहिकरणकत्वे निश्चितेऽपि तदकरणकयागे जिज्ञासा युक्तैवेति भावः । विशेषरूपेति । यवत्वरूपविशेषधर्मावच्छिन्नेत्यर्थः । वाकाराध्याहारेणेति । तथा च व्रीहिकरणकत्वाभावो वाकारार्थः । स च यागेऽन्वेतीति भावः । ननु यदि यवकरणकत्वयागत्वोभयमानं फलसाधनतांशे प्रयोजकं तदोभयकरणकयागस्यापि यवकरणकत्वेन फलसाधनत्वं स्यादत आह-विशिष्ट इति । (४६) प्रकरणभेदादिति । तथा च मोक्षे काशीमरणजन्यत्वानुपस्थितिकाले मोक्षे किं कारणमित्येतावन्मात्राकाङ्क्षया गङ्गामरणविध्युत्थानादिति भावः । वैकल्पिककारणतामुभयत्रोपपादयतिपरस्परेति । पृथक्कल्पता-पृथक्प्रधानविधिबोध्यता । विरुद्धेति । विरुद्धकल्परूपे विकल्पे आदरस्तात्पर्य यस्य सः । तदेवोपपादयति-तत्रेति ।

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285