Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 247
________________ २१६ मुक्तिवादः (१०) अथ यथा दूरस्थसरोऽवगाहनादिसाध्यस्य तदुपायपूर्वकत्वादिविशेषणविशिष्टसन्तापशान्त्यादिरूपफलस्य अनायाससिद्धवृत्त्यादितो निर्वाहेऽपि विशेष्य सन्तापशान्त्यादिरूपफलस्य वृष्ट्यादितो निर्वाहप्रतिसन्धाने दूरस्थसरोऽवगाहनादौ तज्जन्यश्रमे बलवद्वेषान्न प्रवृत्तिः, तथा दुःखनिवृत्तिमात्रफलस्य लघूपायतो निर्वाहप्रतिसन्धानेनात्यन्तिकदुःखनिवृत्तिरूपमोक्षार्थितयाऽपि बहुतरश्रमानुविद्धयोगाभ्यासादौ प्रवृत्त्यनुपपत्तिरिति चेन्न । यथा सुखमात्रस्य लघूपायत्वप्रतिसन्धानेऽपि दुःखासम्भिन्नसुखरूपस्वर्गार्थितया बहुवित्तव्ययायाससाध्ययागादावपि प्रवर्तन्ते दुःखासम्भिन्नत्वरूपविशेषणपुरस्कारेण उत्कटरागसंभवात् बहुवित्तव्ययायासादौ उत्कटद्वेषानुदयात्, तथाऽऽत्यन्तिकत्वरूपविशेषणपुरस्कारेण उत्कटरागस्यानुभविकतया तद्विशिष्टफलार्थितया बहुतरश्रमाऽनुविद्धेऽपि मोक्षोपाये प्रवृत्तिसम्भवात् । उपादेयतानवच्छेदकसरोऽवगाहनपूर्वकत्वादिविशेषणविशिष्टसन्तापशान्त्यादिफले रागौत्कट्यविरहात् उक्तस्थले सरोऽवगाहनादौ प्रवृत्तेरयोगात् । (११) केचित्तु दु:खध्वंसस्य कारणान्तरादेव सम्भवेन न तस्य तत्त्वज्ञानजन्यत्वमित्यालोच्य दुःखबीजदुरितनाशस्यैवात्यन्तिकस्य मोक्षरूपतां स्वीकुर्वन्ति । तस्यात्यन्तिकत्वं स्वसमानाधिकरणदुरितासमानकालीनत्वमेव । भोगजन्ये प्रायश्चित्तजन्ये च दुरितनाशेऽतिप्रसङ्गभङ्गाय तद्विशेषणोपादानम् । न (१०) ननु -अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ इति न्यायेन यत्र विशेष्यस्य लघूपायसाध्यत्वं विशिष्टस्य च गुरूपायसाध्यत्वं तत्र बह्वायासरूपोपाये द्वेषोदयेनाल्पायाससाध्ये विशेष्ये एव प्रवृत्तिदर्शनात् बह्वायाससाध्यात्यन्तिकत्वविशिष्टदुःखनिवृत्तिरूपे मोक्षे कथं प्रवृत्तिरिति आशयेन दृष्टान्तप्रदर्शनपूर्वकमाक्षिपति-अथेति । तदुपायेति । सरोऽवगाहनरूपो य उपायः स पूर्वो यस्य तत् सरोऽवगाहनपूर्वकम् तस्य भाव इत्यर्थः । यत्र विशेषणस्यानुपादेयतया तद्वतो विशिष्टस्यापि नोत्कटेच्छाविषयता तत्रैव तत्प्रयोजके बह्वायाससाध्ये उपाये न प्रवृत्तिः यत्र तु उपादेयविशेषणविशिष्टस्योत्कटेच्छाविषयता तत्र तद्विशिष्टसम्पादकबह्वायासेऽपि प्रवृत्तिर्भवत्येवेति निदर्शनप्रदर्शनपूर्वकं समाधत्ते-यथेत्यादि । दुःखासम्भिन्नत्वरूपविशेषणेति । उपादेयदुःखासम्भिन्नत्वविशेषणविशिष्टस्य सुखस्योत्कटरागविषयत्वेन यथा बहुवित्तव्ययायासादौ नोत्कटद्वेषः तथोपादेयाऽऽत्यन्तिकत्वरूपविशेषणविशिष्टस्य दुःखनिवृत्तिरूपमोक्षस्योत्कटरागवत्त्वेन बहुतरश्रमसाध्ये मोक्षोपायभूते योगाभ्यासादावुत्कटद्वेषासम्भवात् प्रवृत्तिरक्षतेति भावः । उपादेयतेति । उपादेयताइच्छाया अविषयीभूतो योऽभावस्तत्प्रतियोगिता । दूरस्थतयोपादेयतानवच्छेदकीभूतसरोऽवगाहनपूर्वक त्वविशेषणविशिष्टसन्तापशान्तिफलके उत्कटरागाभावेनोक्तस्थले सरोऽवगाहनादौ प्रवृत्तेरसम्भवात् दृष्टान्तवैषम्यमिति भावः । तत्त्वज्ञानजन्य एव मोक्ष इति केषाञ्चिन्मतमाह-केचित्त्विति । कारणान्तरादेव-स्वोत्तरोत्पन्नस्वसमानाधिकरणविशेषगुणादेव । तन्मतेऽऽत्यन्तिकत्वं निर्वक्ति-तस्येति । शङ्कते-न चेति । तत्तच्छरीरारम्भककर्मणां स्वभोगनिर्वाहार्थं तत्तच्छरीरप्रयोजकानां तत्तच्छरीरावच्छेद्यभोगोपधायकानां वा कर्मणामित्यर्थः । अत एव तादृशकर्मणां भोगनाश्यत्वादेव । सुखोपाये इत्यादि । अन्यथा तादृशप्रवृत्तिनिवृत्तिभ्यां कल्प्ययोः सुखदुःखयोरनुपपत्तेः, अदृष्टरूपकारणविरहादिति भावः । तथा च तत्त्वज्ञानजन्यदुरितनिवृत्तेरपि स्व

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285