Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 256
________________ परिशिष्ट-१ २२५ नित्यत्वमेव अनादिविचित्रादृष्टप्रवाहात् पुंसां भोगवैचित्र्यमिति । (२४) एतेन मूलप्रकृतिपरिणामविशेषो बुद्धिर्महदाख्यः तत्रैवादृष्टं कृत्यादिकञ्च । पुरुषास्तु कूटस्थचैतन्यरूपाः । जन्यधर्मानाश्रयत्वं कौटस्थ्यम् । बुद्धिधर्माः कृत्यादयो बुद्धिपरिणामविशेषेणाहङ्कारेणपुंस्यारोप्यन्ते । तदुक्तम् अहङ्कारविमूढात्मा कर्ताहमिति मन्यते । इति । बुद्ध्युपयोग एव पुरुषाणां बन्धः बुद्धेर्लयेन तदनपराग एव तेषामपवर्ग इति साङ्ख्यमतमपास्तम् । बुद्धेरुक्तानादित्वसादित्वरूपविकल्पकवलितत्वात् । तदुक्तमाचार्यैःअन्यथाऽनपवर्गः स्यादसंसारोऽथवा पुनः । इति । असंसार: संसारावैचित्र्यम् । श्रयाभावात्कृतिवैचित्र्यं कथं स्यादिति भावः । (२४) एतेन साङ्ख्यमतमपास्तमित्यन्वयः । तन्मते त्रिगुणात्मिकाऽचेतना प्रकृतिरेव सत्त्वादिगुणवैषम्यपरिणामद्वारा स्वस्मिन्कारणरूपेणावस्थितमिदं विचित्रं जगत् कूर्म इव कूर्माङ्गानि आविष्करोति कार्यकारणयोरभेदात् सैव सृष्टिः । यदा तु विलोमपरिणामेन स्वस्वकारणक्रमेण स्वस्मिन् विलापयति स कालः प्रलय इत्युच्यते । आविर्भावतिरोभावावेवोत्पादविनाशौ । सृष्टिक्रमस्तूक्त ईश्वरकृष्णेन प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडषकः । तस्मादपि षोडषकात्पञ्चभ्यः पञ्च भूतानि ॥ महानिति बुद्धिपर्यायः । एकादशेन्द्रियाणि पञ्च तन्मात्राणि च षोडषको गणः । पञ्चभ्यः तन्मात्रेभ्यः पञ्चभूतानि पृथिव्यादीनि मनुष्यपशुवृक्षादयो पृथिवीविकाराः । पुरुषास्तु न कस्यापि प्रकृतयो विकृतयो वा प्रतिशरीरं भिन्नाश्चैतन्यरूपाः प्रकृतेर्जडत्वेन चेतनोऽहङ्करोमीति चैतन्याभिमानान्यथानुपपत्त्या कल्प्यन्त इति । अदृष्टं धर्माधर्मी । तत्र धर्मोऽभ्युदयनि:श्रेयसहेतुरधर्मो नरकादिहेतुः । कृत्यादिकमित्यादिपदेन सुखादिपरिग्रहः । कूटस्थोऽविकारी । तदेव विवृणोति-जन्यधर्मेति । अहङ्कारेणेति । इन्द्रियालोचितेऽभिमते च विषयेऽहमधिकृतोऽत्र शक्तश्च नान्यः, मदर्था एवामी विषया इत्यभिमानेन मयेदं कर्तव्यमिति बुद्धिव्यापारहेतुना चेतनोऽहं करोमीति प्रतीतौ चैतन्यांशे प्रकारतया कृत्यादयो बुद्धिधर्मा भ्रमविषया भवन्तीत्यर्थः । इति साङ्ख्यमतमिति । अयमभिप्रायः । तन्मते वत्सविवृद्धये प्रवृत्तानि दुग्धानीवाचेतनापि बुद्धिः पुरुषभोगदर्शनाय प्रवृत्ता नर्तकीव विचित्रविलासं तन्मात्रादिकं सुखादिकं च प्रकाशयति, सुखादयश्च पुरुषेऽहङ्कारेणारोप्यन्ते जयपराजयाविव स्वामिनीति । विकल्पकवलितत्वात् अनादित्वसादित्वरूपकल्पद्वयोक्तदोषप्रसङ्गादिति भावः । अनपवर्गः स्यात्प्रकृतिपुरुषोनित्यत्वेन तदुपरागस्यापि नित्यतयाऽनित्यत्वप्रयोजकाभावान्मोक्षाभावः स्यादित्यर्थः । अथवा बुद्धेः सादित्वे प्रथमं बुद्ध्युत्पादकाभावात्संसारवैचित्र्यानुपपत्तिरिति भावः ।

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285