________________
परिशिष्ट-१
२२५
नित्यत्वमेव अनादिविचित्रादृष्टप्रवाहात् पुंसां भोगवैचित्र्यमिति ।
(२४) एतेन मूलप्रकृतिपरिणामविशेषो बुद्धिर्महदाख्यः तत्रैवादृष्टं कृत्यादिकञ्च । पुरुषास्तु कूटस्थचैतन्यरूपाः । जन्यधर्मानाश्रयत्वं कौटस्थ्यम् । बुद्धिधर्माः कृत्यादयो बुद्धिपरिणामविशेषेणाहङ्कारेणपुंस्यारोप्यन्ते । तदुक्तम्
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते । इति । बुद्ध्युपयोग एव पुरुषाणां बन्धः बुद्धेर्लयेन तदनपराग एव तेषामपवर्ग इति साङ्ख्यमतमपास्तम् । बुद्धेरुक्तानादित्वसादित्वरूपविकल्पकवलितत्वात् । तदुक्तमाचार्यैःअन्यथाऽनपवर्गः स्यादसंसारोऽथवा पुनः । इति । असंसार: संसारावैचित्र्यम् ।
श्रयाभावात्कृतिवैचित्र्यं कथं स्यादिति भावः ।
(२४) एतेन साङ्ख्यमतमपास्तमित्यन्वयः । तन्मते त्रिगुणात्मिकाऽचेतना प्रकृतिरेव सत्त्वादिगुणवैषम्यपरिणामद्वारा स्वस्मिन्कारणरूपेणावस्थितमिदं विचित्रं जगत् कूर्म इव कूर्माङ्गानि आविष्करोति कार्यकारणयोरभेदात् सैव सृष्टिः । यदा तु विलोमपरिणामेन स्वस्वकारणक्रमेण स्वस्मिन् विलापयति स कालः प्रलय इत्युच्यते । आविर्भावतिरोभावावेवोत्पादविनाशौ । सृष्टिक्रमस्तूक्त ईश्वरकृष्णेन
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडषकः ।
तस्मादपि षोडषकात्पञ्चभ्यः पञ्च भूतानि ॥ महानिति बुद्धिपर्यायः । एकादशेन्द्रियाणि पञ्च तन्मात्राणि च षोडषको गणः । पञ्चभ्यः तन्मात्रेभ्यः पञ्चभूतानि पृथिव्यादीनि मनुष्यपशुवृक्षादयो पृथिवीविकाराः । पुरुषास्तु न कस्यापि प्रकृतयो विकृतयो वा प्रतिशरीरं भिन्नाश्चैतन्यरूपाः प्रकृतेर्जडत्वेन चेतनोऽहङ्करोमीति चैतन्याभिमानान्यथानुपपत्त्या कल्प्यन्त इति । अदृष्टं धर्माधर्मी । तत्र धर्मोऽभ्युदयनि:श्रेयसहेतुरधर्मो नरकादिहेतुः । कृत्यादिकमित्यादिपदेन सुखादिपरिग्रहः । कूटस्थोऽविकारी । तदेव विवृणोति-जन्यधर्मेति । अहङ्कारेणेति । इन्द्रियालोचितेऽभिमते च विषयेऽहमधिकृतोऽत्र शक्तश्च नान्यः, मदर्था एवामी विषया इत्यभिमानेन मयेदं कर्तव्यमिति बुद्धिव्यापारहेतुना चेतनोऽहं करोमीति प्रतीतौ चैतन्यांशे प्रकारतया कृत्यादयो बुद्धिधर्मा भ्रमविषया भवन्तीत्यर्थः । इति साङ्ख्यमतमिति । अयमभिप्रायः । तन्मते वत्सविवृद्धये प्रवृत्तानि दुग्धानीवाचेतनापि बुद्धिः पुरुषभोगदर्शनाय प्रवृत्ता नर्तकीव विचित्रविलासं तन्मात्रादिकं सुखादिकं च प्रकाशयति, सुखादयश्च पुरुषेऽहङ्कारेणारोप्यन्ते जयपराजयाविव स्वामिनीति । विकल्पकवलितत्वात् अनादित्वसादित्वरूपकल्पद्वयोक्तदोषप्रसङ्गादिति भावः । अनपवर्गः स्यात्प्रकृतिपुरुषोनित्यत्वेन तदुपरागस्यापि नित्यतयाऽनित्यत्वप्रयोजकाभावान्मोक्षाभावः स्यादित्यर्थः । अथवा बुद्धेः सादित्वे प्रथमं बुद्ध्युत्पादकाभावात्संसारवैचित्र्यानुपपत्तिरिति भावः ।