________________
मुक्तिवादः
(२५) भट्टास्तु नित्यसुखसाक्षात्कारोऽपवर्गः । न च नित्यसुखमप्रामाणिकम् 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्' इत्यादिरूप (बहुतर) प्रमाणसम्भवात् । आनन्दमिति छान्दसं नपुंसकम्, ब्रह्मणो रूपमात्मनो धर्मः, मोक्षे=मोक्षसमये प्रतिष्ठितं - साक्षात्कृतमित्यर्थः । एतादृशप्रमाणेन मोक्षकालीनसाक्षात्कारविषयसुखसिद्धौ लाघवेन तस्योत्पादविनाशाभावसिद्धौ नित्यतायां पर्यवसानात् ।
२२६
(२६) केचित्तु 'नित्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतिः आनन्दविशिष्टस्यात्मनो नित्यतां बोधयति विशिष्टान्वयपरताया औत्सर्गिकतया असति बाधके त्यागायोगादिति विशेषणस्यानन्दस्य नित्यत्वे सैव प्रमाणमित्याहुः ।
(२७) तच्चिन्त्यम् । तथा सति ततो नित्यज्ञानस्यापि सिद्धिप्रसङ्गात् । न च मीमांसकानां तदनुमतं, वेदान्तिनामेव यथाश्रुततादृशश्रुतिबलात् ज्ञानसुखात्मकस्य परमात्मनः सिद्धिः । तेषाञ्च तदेकवाक्यतया आनन्दं ब्रह्मणो रूपमित्यस्य सुखं ब्रह्मणः स्वरूपमित्यर्थः । मोक्षे प्रतिष्ठितमित्यस्य च सप्तम्या जनकतार्थकतया भविष्यतीत्यध्याहारेण वा अविद्यानिवृत्तिरूपमोक्षजनकसाक्षात्कारविषय इत्यर्थः ।
(२५) भट्टमतं दूषयितुमुपन्यस्यति भट्टास्त्विति । आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेत्यादि प्रमाणानुरोधेन बहुतरपदम् । छान्दसमिति । छन्दसि बहुलमित्यनुशासनान्नपुंसकत्वं युक्तमित्यर्थः । लाघवेन तस्य नित्यत्वे उत्पादविनाशसामग्र्यकल्पनप्रयुक्तलाघवेनेत्यर्थः ।
(२६) केचित्विति । मीमांसका इत्यर्थः । औत्सर्गिकतयेति । तादृशवाक्यघटितसामान्यसामग्रीलभ्यतया। असति बाधके विशिष्टान्वयोऽत्याज्यः, सति तु बाधके अजो नित्यः शाश्वतोऽयमित्यादौ शरीरे जन्मराहित्यबाधेनात्मन्येव तदन्वयात् तत्त्याग इति भावः ।
(२७) तथा सति विशिष्टान्वया - परित्यागे सति । न चेति । तथा च मीमांसकैरीश्वरानङ्गीकाराद्विशिष्टान्वयापरित्यागे नित्यज्ञानवतो ईश्वरस्य सिद्धिस्तेषामनभिमताप्यापतेतेत्यर्थः ।
I
शङ्कते-अथेति । वाक्यभेदभियेति । विभिन्नमुख्यविशेष्यताशालिबोधजनकत्वं वाक्यभेदः । तथा च घटपटौ न स्त इत्यत्र प्रत्येकं भूतलं घटाभाववत्पटाभाववच्चेति नानाविशेष्यकबोधाङ्गीकारे भूतलं घटवदितिनिश्चयकाले तादृशप्रतीत्यनुपपत्तेः तादृशप्रतीत्यनन्तरं च भूतलं घटपटोभयाभाववन्न वेति संशयानुदयानुपपत्तेश्चेति भियेत्यर्थः । अव्यासज्यवृत्ति इति । सुखदुःखान्यतरत्वरूपम् । तत्सम्भवात्= तादृशान्यतरत्वधर्मावच्छिन्नाभावप्रतिपादनसम्भवाद् इत्यर्थः । वाचकपदाभावेन लक्षणयैव तादृशबोधः स्वीकर्तव्यः, स चासम्भवी 'प्रियाप्रिय' इति वाक्ये लक्षणाऽस्वीकारात् प्रत्येकं लक्षणाङ्गीकारेऽपरपदवैयर्थ्यापत्तेरिति तात्पर्यम् । ननु चित्रगुरित्यादौ यथा गोशब्दो गोस्वामिनि लक्षकः चित्रपदं तु तात्पर्यग्राहकमितीष्यते तथाऽत्रापि स्यादत आह- तावतापीति । अयोग्यत्वस्य = बाधविरहाभावस्यापरिहार्यत्वात्तत्र सुखसत्त्वेनान्यतरत्वावच्छिन्नाभावो बाधित इति भावः । यत इति । 'प्रियाप्रिये न स्पृशत ' इत्यस्य प्रियाप्रिययोरभावबोधने आख्यातस्य स्वार्थसङ्ख्यान्वयिसमानवचनकत्वनियमात् अभावस्यैक्याद्द्विवचनानुपपत्तिः आख्यातार्थसङ्ख्याया आख्यातार्थविशेष्य एवान्वयात् इति भावः । तदनुयोगिकेति । अनुयोगित्वं=कर्मत्वं स्पृशधात्वर्थ: सम्बन्धः प्रतियोगित्वं चात्र कर्तृत्वं ज्ञेयम् । स्पृशधातोः सत्तार्थकता शङ्कते-न चेति । प्रतियोगिमति व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावानभ्युपगन्तृनये तादृशनियमे