________________
परिशिष्ट-१
२२७
(२८) अथ 'अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत' इत्यादिश्रुतिविरोधात् मुक्तस्य सुखसम्बन्धस्वीकारासम्भवः । न च तत्र वाक्यभेदभिया प्रत्येकनिषेधपरता न स्वीक्रियते, अपि तु उभयाभावपरतैव, तथा च सुखसत्त्वेऽपि दुःखाभावात् उभयाभावसत्त्वेन न विरोधः । अव्यासज्यवृत्त्यनुगतरूपावच्छिन्नाभावपरतया वाक्यभेदपरिहार उपायकारानुमतो न साधीयान्, प्रियाप्रिययोरेकपदेन प्रतिपादन एव तत्सम्भवात्, तावतापि अयोग्यत्वस्यापरिहाराच्च । दुःखाभावादुभयाभावः सुखाभावाद्वेति विनिगमनाविरहो नाशङ्कनीयः “दुःखेनात्यन्तं विमुक्तश्चरति' इत्यादिश्रुतिबलात् दुःखाभावस्य प्रामाणिकत्वात् तस्यैवोभयाभावप्रयोजकत्वादिति वाच्यम् । यतः 'प्रियाप्रिये न स्पृशत' इत्यनेन प्रियाप्रिययोरभावो न प्रत्याय्यते, अपि तु तदुभयानुयोगिकमुक्तात्मकर्मकस्पर्शकर्तृत्वाभाव एव । तत्कर्मस्पर्शकर्तत्वं च तदनयोगिकसम्बन्धप्रतियोगित्वम, प्रिये सखे तादृशसम्बन्धप्रतियोगितासत्त्वे च उभयत्वावच्छिन्नेऽपि तत्र तदभावबाधः प्रतियोगिमति व्यासज्यवृत्तिधर्मावच्छिन्नाभावानभ्युपगमात् । न च स्पृशधातुरत्र सत्तार्थकः, तथा च घटपटौ न स्त इत्यत्र यथा घटपटोभयाभावेऽस्तित्वं प्रतीयते तथा प्रकृतेऽपि सुखदुःखोभयाभावेऽस्तित्वं प्रतीयते इति वाच्यम् । तथा सति धातोरकर्मकतया शरीरमिति द्वितीयानुपपत्तिः। अनुयोगिनि सप्तमी विना प्रातिपदिकार्थाभावप्रत्यायनायोगाच्चेति चेन्न ।
(२९) मोक्षसुखबोधकानन्दमित्यादिश्रुतिविरोधभयेन मुक्तात्मनि विद्यमानेऽपि सुखे तदवृत्तितानवच्छेदकोभयत्वावच्छिन्ने मुक्तात्मनिष्ठसम्बन्धप्रतियोगित्वाभावोपगमात् । एक एव गच्छति न तु द्वावित्यादि व्यवहारात् प्रतियोग्यधिकरणे व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावस्यावश्यकत्वाच्च । अथवा न स्पृशत इत्यस्य उत्पत्तिरूपसम्बन्धप्रतियोगित्वाभावोऽर्थः । न च धातोरुत्पत्तिरूपसम्बन्धार्थकत्वे जन्यादिवदकर्मकता स्यादिति वाच्यम् । आद्यक्षणानुयोगिकसम्बन्धार्थकतया जनिप्रभृतीनामकर्मकत्वात्, अत्राद्यक्षणावच्छिन्नसम्बन्धस्य धात्वर्थतया तदनुयोगितया आत्मनः कर्मतासम्भवात् । अथवा प्रियपदं
घटमात्रवति गृहे घटपटौ न स्त इति प्रतीत्यनुपपत्तिः तादृशगृहवृत्तित्वस्य घटे सत्त्वेनोभयत्वावच्छेदेन तदभावासत्त्वात्, अतो गृहवृत्तिर्घटपटोभयाभाव इति तादृशप्रतीतिबोध्यार्थो वाच्यः, तथा चाभावस्यैक्यात् द्विवचनानुपपत्तिः । एवं च यत्प्रतिपदिकार्थान्वितनबर्थे आख्यातार्थान्वयः तत्समानवचनकत्वम् इत्यपि वाच्यम् । तथा च प्रकृते स्पृशधातोरस्तित्वार्थकतया सुखदुःखोभयाभावेऽस्तित्वं प्रतीयत इति शङ्कार्थः । ननु यतधातोरकर्मकत्वेऽपि यत्नार्थककृञ्धातोः सकर्मकत्ववत् सत्तार्थकस्पृशधातोरपि सकर्मकत्वं स्यादतो दोषान्तरमाचष्टे-अनयोगिनीति । नार्थाभावानयोगिनीत्यर्थः । प्रातिपदिकार्थेति । नजा इति शेषः ।
था पटो न घट इत्यतोऽपि घटाभाववान् पट इति प्रतीतिः स्यात् । चैत्रो न गच्छतीत्यत्रानुयोगिनि विनापि सप्तमी आख्यातार्थाभावप्रत्ययात् प्रातिपदिकेति ।
__(२९) ननु आनन्दमित्यादिश्रुतिविरोधपरिहाराय प्रतियोगिवृत्तिनः पदार्थस्य व्यासज्यवृत्तिधर्मावच्छेदेनाभावस्वीकारेऽतिरिक्तपदार्थकल्पनापत्तिगौरवापेक्षया दुःखाभावपरतयैवानन्दपदस्य विरोधवारणे लाघवमित्याशङ्क्याह-एक एवेति । तथा च व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकाभावः सर्वैरेवाङ्कीकार्यः, एवं च स्पृशधातोर्मुख्यार्थपरत्वमप्युपपन्नमिति भावः । नन्वेककर्तृकगमनस्थलेऽपरस्मिस्तदभावसत्त्वेन द्वौ न गच्छत इति बोधस्य द्वित्वसामानाधिरण्येन गमनकर्तृत्वाभावावगाहितयैवोपपत्तौ व्यासज्यवृत्तिधर्मावच्छिन्नाभावकल्पनमनुचितम् । न चैककर्तृकगमनस्थले द्वौ