________________
२२८
मुक्तिवादः
जन्यसुखपरमेव तथा च न कश्चिद्विरोधः ।
(३०) अथ शरीररूपकारणविरहेण मुक्तस्य सुखसाक्षात्कारानुपपत्तिः तत्साक्षात्कारस्यापि नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्ग इति चेन्न अवच्छिन्नज्ञानं प्रत्येव शरीरस्य हेतुत्वात् शरीरानवच्छिन्नस्य नित्यसुखसाक्षात्कारस्य शरीरमन्तरेणाप्युत्पत्तिसम्भवात् । न्यायमते नित्येश्वरज्ञाननिवृत्तये जन्यत्वस्यावश्यं निवेशनीयतयाऽवच्छिन्नत्वस्य शरीरजन्यतावच्छेदकत्वप्रवेशेऽपि गौरवानवकाशात् । वस्तुतोऽवच्छेदकतासम्बन्धेनैव ज्ञानं प्रति शरीरस्य हेतुतया नित्यसुखसाक्षात्कारस्य तेन सम्बन्धेन कुत्राप्यनुत्पत्तेरशरीरस्यापि तत्सम्भवात् । न चैवमन्यदापि शरीरं विनाऽनवच्छिन्नज्ञानं स्यादिति वाच्यम् । शरीराघटितज्ञानसामग्र्यास्तत्त्वज्ञानघटितत्वात् । न च जन्यज्ञानस्य मोक्षरूपत्वे तन्नाशेऽपि मोक्षोऽपि निवर्तते इति वाच्यम्। तत्तज्ज्ञानव्यक्तिनिवृत्तावपि सुखसाक्षात्कारधाराया अनिवृत्तेरित्याहुः ।
(३१) तन्न मनोरमम् । तन्मतेऽपि दुःखात्यन्तविमोक्षस्य दुःखसाधनदुरितात्यन्तनिवृत्तेर्वा मोक्षदशायामावश्यकत्वेन तत्र तत्त्वज्ञानहेतुताया अपि तथात्वे आत्यन्तिकदुःखादिनिवृत्तेरेव मोक्षरूपताया
गच्छत इत्यादिप्रयोगः स्याद्वित्वसामानाधिकरण्येन कर्तृत्वस्य विद्यमानत्वादिति वाच्यम् । नजोऽसमभिव्याहारस्थले व्यासज्यवृत्तिधर्मावच्छेदेनैव प्रत्ययजनकत्वाङ्गीकारात् । तथा च 'प्रियाप्रिय' इत्यत्र यस्मिन्नैवाभावान्वयस्तत्कथनमुचितमितरस्य निरर्थकत्वादित्यत आह-अथवेति । अकर्मकत्वादिति । अनुयोगित्वरूपकर्मत्वस्य धातुबोधितत्वादिति भावः । कर्मतासम्भवादिति । अत्र धात्वर्थेनानुयोगित्वस्यानुपसङ्ग्रहादकर्मकत्वमेव स्पृशधातोरिति बोध्यम् । एवञ्चाशरीरमित्यादिश्रुतेरशरीरात्मानुयोगिताकाद्यक्षणावच्छिन्नसम्बन्धप्रतियोगित्वाभाववती प्रियाप्रिय इति वाक्यार्थः पर्यवसितः। अत्र न वै सशरीरस्य सतः प्रियाप्रिययोरुपहतिरस्तीति श्रुतिपूर्वभागस्य शरीरविशिष्टात्मनः सुखदुःखयो
शोऽनुत्पत्तिर्वा नास्तीत्यनेन शरीरस्यैव सुखदुःखसम्बन्धप्रयोजकत्वपरत्वेनाशरीरमित्याधुत्तरभागस्य शरीराभावप्रयोज्यसुखदुःखसत्त्वनिषेधपरताऽऽवश्यकी । अत एव सुखपदस्य जन्यसुखपरतया स्पृशधातोश्च सम्बन्धपरतया कल्पान्तरमाह भट्टाचार्य:- अथवेति ।
(३०) शङ्कते-अथेति । बाधकाभावेऽपि अशरीरस्य मुक्तस्य सामान्याभावात्कुतः सुखसाक्षात्कार:? इत्यर्थः । अविशेषप्रसङ्ग इति । तादृशसाक्षात्कारस्य नित्यत्वेन संसारदशायामपि वर्तमानत्वादिति भावः । न्यायमत इति । तथा च तन्मतेऽन्यूनानतिरिक्तवृत्तिजन्यत्वमेवावच्छेदकम् तादृशधर्मस्यैवावच्छेदकत्वाङ्गीकाराद्, अन्यथा द्रव्यत्वस्यापि दण्डजन्यतावच्छेदकत्वापत्तेरिति भावः । ननु पटादौ व्यभिचारित्वादेव द्रव्यत्वस्य नावच्छेदकत्वमङ्गीकर्तुं शक्यम् । तथा च व्यभिचाराधनापादकातिरिक्तवृत्तिधर्मस्यावच्छेदकत्वमक्षतमेव, एवं च न्यायमते जन्यत्वस्य जन्यतावच्छेदककोटावप्रवेशेन तव मत एव गौरवं स्यादत आह- वस्तुत इति । तत्सम्भवात् नित्यज्ञानसम्भवात् । तत्त्वज्ञानघटितत्वादिति । त्वङ्मन:संयोगस्याकरणत्वमतेनेदमन्यथा शरीरनैरपेक्ष्येऽपि ज्ञानसामान्यहेतोस्त्वङ्मन:संयोगस्य विजातीयात्ममन:संयोगस्य च विरहात् कथं नित्यसुखसाक्षात्कारो भविष्यतीति शङ्का दुर्वारा स्यादिति भावः ।
(३१) गौरवेति । इदमुपलक्षणम्-तेन शरीरं विनानवच्छिन्नज्ञानस्वीकारे तदभिमतशरीरकल्पनमप्यनुचितम् । सुखविशेषात्मकस्वर्गस्यानवच्छिन्नत्वस्वीकारेण शरीरं विनापि तत्सम्भवादिति