________________
परिशिष्ट - १
उचितत्वात्, नित्यसुखे तत्साक्षात्कारादिकल्पनाया एव गौरवपराहतत्वात् ।
( ३२ ) ‘आनन्दं ब्राह्मणो रूपम्' इत्यत्र आनन्दपदं दुःखविरहार्थकमेव मोक्षे प्रतिष्ठितमित्यस्य सवासनमिथ्याज्ञानस्य निवृत्तावुत्तरावधिरहितं सत् स्थितमित्यर्थः ।
२२९
(३३) मुक्तिम्प्रत्यात्मतत्त्वज्ञानं हेतुः 'आत्मा वारे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यश्चैतावदरे खल्वमृतत्वम्' इति श्रुतेः । एतावत् - श्रवणादिरूपं ज्ञानममृतत्वममृतत्वस्य मोक्षस्य हेतुः । तत्र कारणम् सवासनमिथ्याज्ञानोन्मूलनक्षमः श्रुतिस्मृत्युपदिष्टयोगविधिना चिरनिरन्तरादरसेवितनिदिध्यासनयोगजधर्मप्रयोज्यः शरीरभिन्नत्वेन आत्मनः साक्षात्कार एव, शाब्दादिज्ञानस्य देहाभेदवासनारूपदोषविशेषजन्यायामहं गौर इत्यादिमिथ्याबुद्धौ अप्रतिबन्धकत्वात्तज्जन्यवासनायाः अनाशकत्वाच्च । श्रवणादिकञ्च तद्द्वारा मोक्षोपयोगि ।
ज्ञेयम् ।
(३२) नित्यसुखासत्त्वेऽपि आनन्दमिति श्रुतिं न्यायभाष्याद्यनुसारेण समर्थयति-आनन्दपदमित्यादिना । उत्तरावधीति । उत्तरकालनिष्ठाभावप्रतियोगित्वरहितमित्यर्थः । कारणाभावाद् दुःखानुत्पत्तौ उत्तरकालस्य तदनधिकरणत्वेन तदभावस्यैव सम्बन्धतावच्छेदकत्वादित्यभिप्रायः ।
(३३) नन्वात्यन्तिकदुःखध्वंसरूपमुक्तिपक्षे सा कुतो भवतीत्याशङ्क्याह- मुक्तिं प्रतीति । प्रमाणं दर्शयति-बृहदारण्यके- आत्मेति । भगवान् याज्ञवल्क्यः मुमुक्षुं स्वभार्यां मैत्रेयीं सम्बोध्याह - अरे इत्यादिना । तत्र विधिविहिततव्यचतुष्टयेनैतावदित्यादिनैकवाक्यतया मोक्षरूपेष्टसाधनत्वं बोध्यते । तस्य च धात्वर्थश्रवणादावन्वयात् तादृशश्रवणादिविषयत्वस्यात्मन्येवान्वयेन चात्मश्रवणादेर्मोक्षकारणत्वलाभ इति । हेतुरिति । अत्र हेतुत्वं 'अन्नं वै प्राणा' इत्यादाविव लक्षणया लब्धम् इति भावः । तत्रेति । कारणं साक्षात्कार एवेत्यन्वयः । साहित्यार्थकचकारेण समुच्चितात्मश्रवणादिभ्यो मुक्तिर्भवतीति प्राप्तेऽपि एकदा ज्ञानचतुष्टयानां सत्त्वासम्भवात् मननादेर्वासनानाशकत्वाभावाच्च आत्मसाक्षात्कारः साक्षात्कारणम् मुक्तेः, श्रवणादिकन्तु तद्द्वारेति भावः । तादृशसाक्षात्कारेण नष्टेऽपि मिथ्याज्ञाने पुनर्वासनारूपदोषसत्त्वेन मिथ्याज्ञानं स्यादत आह- सवासनेति । श्रुतिस्मृतीति । " ते ध्यानयोगानुगता अपश्यन्निति " मन एकत्र संयुज्याज्जितश्वासो जितासनः । वैराग्याभ्यासयोगाभ्यां ध्रियमाणमतन्द्रितः ॥
श्रुत्या
सोऽहमस्मीत्युपासीत इत्यादिस्मृतिभिश्चोद्दिष्टविधिनेत्यर्थः । चिरेत्यादि । तादृशनिदिध्यासनात्मकयोगजन्यधर्मप्रयोज्य इत्यर्थः । एतदेव पातञ्जलयोगसूत्रेऽप्युक्तम् तद्यथा " स तु दीर्घकालदरनैरन्तर्यसत्कारसेवितो दृढभूमिः" इति । सोऽभ्यासः दीर्घकालं = बहुकालं नैरन्तर्ये=निरन्तरं सत्कारेण= श्रद्धया आ सम्यक् सेवितः सम्पादितः सन् दृढभूमिर्दृढावस्थो भवति, न तु विरोधिसंस्कारैरभिभूतो भवति इत्यर्थः । अभ्यासस्तु “ तत्र स्थितौ यत्नोऽभ्यासः " चित्तैकाग्रतापरिणाम उत्साह इत्यर्थः । सा च स्थितिर्न्यायमते सवासनमिथ्याज्ञानराहित्यपर्यवसन्ना तत्साधनानुष्ठानं निदिध्यासनान्तमिति । अप्रतिबन्धकत्वादिति । दोषाजन्यत्वस्य प्रतिबध्यकौटौ निवेशात् । अनाशकत्वादिति । स्वजनकज्ञानविरोधिज्ञानस्यैव संस्कारनाशकत्वादिति भावः ।