________________
२३०
मुक्तिवादः
(३४) अत एव संसारदशायामपि शास्त्राधीन श्रवणपदवाच्यशाब्दबोधरूपात्मज्ञानस्य मननपदवाच्यायाः शास्त्रादिबोधितवैधर्म्यलिङ्गकात्मपक्षकेतरभेदानुमितेः श्रवणादिमूलकसंस्काराधीनतत्समानविषयकध्यानोपहितेच्छाया निदिध्यासनपदवाच्यायाः सत्त्वेऽपि न मोक्षोत्पत्तिः । न च श्रवणादिसत्त्वेऽपि आत्मतत्त्वसाक्षात्कार एव कथमिदानीं नोत्पद्यत इति वाच्यम् । तस्य चिरकालीनध्यानपरम्परासाध्यत्वात् । तदुक्तम्
आगनेनानमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ ध्यानाभ्यासरसः पौन:पुन्येन स्मरणेच्छा । त्रिधा प्रज्ञां-श्रवणमनननिदिध्यासनरूपत्रिविधज्ञानं प्रकल्पयन् स्वादयन् उत्तमं योगमात्मतत्त्वसाक्षात्काररूपं लभते इत्यर्थः । श्रुतिबोधितेऽपि शरीरादिभिन्ने आत्मनि यथाश्रुतश्रुत्यन्तरार्थविरोधेन तादृशश्रुतेरर्थान्तरपरत्वशङ्कया तादृशबोधे भ्रमत्वशङ्कासम्भवात् अश्रद्धया निदिध्यासनं न घटत इति श्रवणानन्तरं मननस्योपयोगः । युक्तिसिद्धेऽर्थे प्रमितत्वावधारणेन मनने सत्यश्रद्धानिवृत्तेः । अत एव युक्तिशास्त्रस्य न्यायवैशेषिकादेरध्ययनं मोक्षे उपयुज्यते ।
(३५) केचित्तु ईश्वरात्मसाक्षात्कार एव मोक्षे कारणम् । तस्यातीन्द्रियत्वेऽपि योगजधर्मरूपप्रत्यासत्तेस्तत्साक्षात्कारसम्भवः । न चात्मा श्रोतव्य इत्यादावात्मपदस्य जीवात्मपरतासम्भवात् ईश्वरसाक्षात्कारस्य मोक्षहेतुत्वमप्यप्रामाणिकमिति वाच्यम् । “वेदाहमेतं पुरुषम्प्रधानमादित्यवर्णं तमसः
(३४) अत एव-श्रवणादेः साक्षात्साक्षात्कारकारणत्वाभावादेव । वैधर्म्यलिङ्गकेति । आत्मा शरीरादिभिन्नः अनादित्वात् यन्नैवं तन्नैवमिति व्यतिरेक्यनुमितेः । ध्यानोपहितेच्छाया इति । उपहितत्वं वैशिष्ट्यम् । तच्च स्वाव्यवहितपूर्वकत्वस्वसामानाधिकरण्योभयसम्बन्धेन बोध्यम् । एतेन विशिष्टान्वयसम्बन्धात् ध्यानस्यापि हेतुत्वं लभ्यते, इच्छायास्तु ध्यानद्वारा, अतो न त्रिधा इत्यादिवचनलब्धस्य ध्यानहेतुत्वस्य विरोधः । श्रुतिबोधितेऽपीति । प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्ता चैतन्यं चिन्मात्रं सदित्यादिश्रुतिबोधित इत्यर्थः । श्रुत्यन्तरेति । स वा एष पुरुषोऽन्नरसमय इत्यादि श्रुत्यन्तरार्थविरोधेनेति भावः । अर्थान्तरपरत्वशङ्कयेति । प्रत्यगस्थूल इत्यादिश्रुतेः आत्मा वारे इत्यादिनिखिलात्मस्वरूपप्रतिपादक श्रुतेश्चान्नरसमयशरीरपरत्वशङ्कयेत्यर्थः । तादृशबोधे इति । अस्थूलाशरीरत्वादिबोधे इति भावः । अत एवात्मनि शरीरादिभिन्नत्वाद्यंशेऽप्रामाण्यशङ्कारूपाश्रद्धानिवृत्तेरेव । उपयुज्यत इति । तत्र न्यायदर्शने तृतीयाध्याये "दर्शनस्पर्शनाभ्यामेकार्थग्रहणाद्'इत्यादिना, वैशेषिकदर्शने च ३-अ० २ पादे "प्राणापाननिमिषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानी''त्यादिना च सूत्रेण महर्षिगौतमकणादाभ्यां देहाद्यतिरिक्तत्वस्यात्मनि साधितत्वात् ।
(३५) वेदेति । अहमेतं परमात्मानं वेद-जाने । किंरूपं पुरुषं ? पूर्णं महान्तं प्रधानं सर्वव्यापकत्वादादित्यवर्णं स्वप्रकाशरूपं न्यायमते जीवब्रह्माभेदभावनया साक्षात्कारविषयम् । तमसो मिथ्याज्ञानात्परस्तादतीतः तच्छून्य इति यावत् । तमेवेति । तमात्मानं ज्ञात्वा मृत्युरहितो मुक्तो भवतीत्यर्थः । इदमत्र तात्पर्यम्-यदा तमेवेत्यादिना मुक्तिप्रयोजकत्वमीश्वरसाक्षात्कारस्यैव लब्धम् तदा आत्मा वारे