________________
परिशिष्ट-१
२३१
परस्तात्" इत्यनेन ईश्वरमुपक्रम्य 'तमेव विदित्वाऽतिमृत्युमेति' इत्यनेन तद्वेदनस्यैव मोक्षहेतुताबोधनात् तदेकवाक्यतया आत्मा श्रोतव्य इत्यादावपि आत्मपदस्य ईश्वरपरत्वात् । अत एव
न्यायचर्येयमीशस्य मननव्यपदेशभाक् ।
उपासनैव क्रियते श्रवणानन्तरागता ॥ इत्याचार्यग्रन्थोऽपि सङ्गच्छते । ।
(३६) न चेश्वरसाक्षात्कारस्य स्वात्मविषयकमिथ्याज्ञाननिवर्तकत्वं न विपरीतज्ञानविधया, अपि तु स्वात्मतत्त्वसाक्षात्कारस्यैवेति स एव मोक्षहेतुरिति वाच्यम् । वासनारूपदोषविनाशकतयैवेश्वरसाक्षात्कारस्य मिथ्याज्ञाननिवर्तकत्वात् । ईश्वरसाक्षात्कारस्य विपरीतज्ञानानिवर्तकत्वेऽपि स्वातन्त्र्येणैव मिथ्याधीजन्यवासनानाशकत्वोपगमे क्षतिविरहात् । संस्कारविपरीतज्ञानयोविषयभेदेन नाश्यनाशकभावभेदादात्मदेहाभेदवासनानाशे देहभेदावगाहिस्वात्मसाक्षात्कारकारणताया अपि कल्पनीयतया ईश्वरसाक्षात्कारस्य तन्नाशकतापक्षे गौरवानवकाशात् । अस्तु वा वासनानाशार्थं स्वात्मतत्त्वसाक्षात्कारोपयोगः अनुयोगितया, प्रतियोगितया चात्मैव तत्त्वतो ज्ञेय इत्याचार्यग्रन्थस्याप्यत एव सङ्गतिः । मोक्षकारणन्तु परमात्मसाक्षात्कार एव।
(३७) न च योगजधर्मस्य विश्वभासकतया तज्जन्यपरमात्मसाक्षात्कारे विश्वेषामेव भानसम्भवे तमेव विदित्वेत्यत्र एवकारबोध्यस्य तदितरविषयकत्वव्यवच्छेदस्येश्वरवेदने बाध इति कथं तादृशश्रुतेरीश्वरपरतेति वाच्यम् । आत्मसाक्षात्कारस्यापि भवदभिमतमोक्षहेतोर्देहादिभेदविषयकतया तत्रापीतरविषयकत्वव्यवच्छेदबाधादस्मदभिमतमोक्षहेतुपरमात्मनिर्विकल्पकस्यैव तत्सामग्र्याः प्रतिबन्धकत्वकल्पनया तदितराविषयकत्वोपपत्तेः । तं विदित्वैव इत्येवकारव्यत्ययेन व्याख्यायाः समाधानमपि तुल्यमुभयमते । वस्तुतस्तु एवकारव्यत्यये एवकारस्यैव वैयर्थ्यम्, नान्यः पन्था विद्यतेऽयनायेत्यनेन मुक्तिसामग्रीमात्रे तत्त्वज्ञानघटितान्यत्वनिराकरणात्तत एव एवकारलभ्यस्य मुक्तिपूर्वं समानाधिकरण
इत्यादिश्रुतेरपि तदर्थकतयैवोपपत्तौ जीवपरताया गौरवेण सम्भवत्येकवाक्येत्यादिन्यायेन च अन्याय्यत्वात् । तथा चात्मपदं सर्वत्रेश्वरपरम् न तु जीवात्मपरमिति भावः । न्यायचर्चा=न्यायजन्यानुमितिः । मिथ्याज्ञाननिवर्तकत्वात्= शरीराद्यभेदज्ञानानुत्पादकत्वात् ।
(३६) नाश्यनाशकभावभेदादिति । तत्तत्प्रकारकसंस्कारनाशं प्रति तत्तदभावप्रकारकनिश्चयत्वेन विशिष्य नाश्यनाशकभावसत्त्वात्, न तु सामान्यतो विपरीतज्ञानत्वेन, तथा सति घटादिमत्तासंस्कारम्प्रति पटाभावादिनिश्चयोऽपि नाशक: स्यात् । एवं च जीवात्मसाक्षात्कारवादिमतेऽपि आत्मधर्मिकशरीराद्यभेदप्रकारकसंस्कारस्यैव तादृशसंस्कारनाशकत्वकल्पने गौरवाभावादिति भावः । नन्वेवं गौरवाभावेऽपि विपरीतज्ञानस्यैव सर्वत्र संस्कारनाशकत्वं दृष्टमिति दृष्टान्ताभावादीश्वरसाक्षात्कारस्य तन्नाशकत्वकल्पनमन्याय्यमत आह-अस्तु वेति । अनुयोगितयेति । ईश्वरभेदप्रकारतानिरूपितानुयोगित्वनिष्ठसांसर्गिकविषयतानिरूपकज्ञानीयविशेष्यताश्रय आत्मा इत्यर्थः ।
(३७) तत्सामग्र्या इति । योगजधर्मविशेषघटितकारणकूटस्येश्वरेतरविषयकज्ञानं प्रति प्रतिबन्धकत्वकल्पनयेति भावः । नान्य इति । अन्यः परमात्मसाक्षात्कारादन्यः, पन्था असाधारणकारणम्,