________________
२३२
मुक्तिवादः
तत्त्वज्ञानावश्यकत्वस्य लाभात् । अत ईश्वरसाक्षात्कारस्यैव कारणत्वमुचितम्, तथा सत्युक्तरीत्या एवकाराव्यत्यासेऽपि निर्वाहसम्भवात् ।
(३८) अथ 'यतो वा इमानि भूतानि जायन्ते तत्त्वमसि श्वेतकेतो' इति जीवात्मनः परमात्माभेदोपदेशक श्रुतिस्वरसादहं ब्रह्मास्मीत्येतादृशज्ञानस्यैव मुक्तिहेतुताया उपगन्तव्यतयाऽव्यत्यस्तैवकारलभ्यस्य मुक्तिजनकेश्वरज्ञाने तदितरविषयकत्वबाध इति भवतोऽपि तद्व्यत्यास आवश्यकः। एतेनैवकारेण मोक्षहेतुतवेदने तदन्यविषयकत्वं न व्यवच्छिद्यते, किन्तु मुक्तौ तद्विषयकत्वविशिष्टवेदने प्रयोज्यताया भावान्वयबोधविषयतया तदनन्यविषयकत्वविशिष्टतवेदनप्रयोज्यत्वमेव तत्रैवकारेण व्यवच्छिद्यते । तथा च तदन्यविषयकत्वस्य मुक्तिप्रयोजकत्वव्यवच्छेदः पर्यवसित इति सामग्रीवशादीश्वरसाक्षात्कारेऽनुपयुक्त तरभानस्यावश्यक त्वेऽपि न क्षतिः । जीवात्मसाक्षात्कारस्य हेतुतामते पुनरेवकाराव्यत्यासेनोक्तरीत्यापि न निर्वाह: । इतरभेदादिविषयकत्वेनैव तन्मत आत्मसाक्षात्कारस्य हेतुताया इतरविषयकत्वे मोक्षप्रयोजकताया व्यवच्छेत्तुमशक्यत्वादित्यपि निरस्तम् । ब्रह्मैवाहं न संसारीत्यादिभावनादिविध्येकवाक्यतया अहं ब्रह्मास्मीति बुद्धायादिमते ब्रह्माभिन्नजीवात्मविषयकत्वेनापि मुक्तिहेतुत्वात् । आत्मनानात्वमते जीवात्मब्रह्मणोरभेदज्ञानं यद्यपि भ्रमस्तथापि तादृशस्यैव तस्य मोक्षहेतृत्वं श्रतिसिद्धं न विरुद्ध्यते इति चेन्न जीवब्रह्माभेदचिन्तनरूपस्य योगस्याभ्यासेन मोक्षकारणमीश्वरसाक्षात्कारः सम्पद्यत इत्यत्रैव तत्त्वमसीति वाक्यतात्पर्येण यथाश्रुतस्य
अयनाय=मोक्षाय, तथा च तदन्यो मोक्षस्यासाधारणं कारणं नास्तीत्यर्थः । अत इति । स्वात्मसाक्षात्कारस्य मुक्तिहेतुतामते एवकारव्यत्यासं विना गतिविरहेण वैयर्थ्यभयादित्यर्थः ।
(३८) जीवात्मसाक्षात्कारवादी शङ्कते-अथेति । यतो वेति । येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तीति शेषः । यतो ईश्वरत इमानि भूतानि ब्रह्मादिस्थावरान्तानि जायन्त उत्पद्यन्ते जीवन्ति-प्राणान् धारयन्ति यत् येन प्रयन्ति विनश्यन्ति अभिसंविशन्ति साम्यं गच्छन्ति दुःखाभाववत्त्वेनेत्यर्थः । अव्यस्तेति । अन्यत्रायोजितेत्यर्थः । एतेनेत्यस्य निरस्तमित्यत्रान्वयः । भावान्वयबोधविषयतयेति । आत्मविषयकविशिष्टबोधप्रयोज्यताया एवकारोपस्थाप्यव्यवच्छेदप्रतियोगित्वेनान्वयबोधे तात्पर्यविषयतयेत्यर्थः । तदन्यविषयकत्वेति । अत्रायमभिप्रायः-एवकारस्य भेदविशिष्टेऽभावे च खण्डशः शक्ति: 'भुक्त्वा तृप्तो न तु पीत्वा' इत्यादि प्रत्ययानुरोधेन विदित्वेत्यत्र क्त्वाप्रत्ययस्य प्रयोज्यत्वमर्थः । तथा चैवकारलभ्यभिन्नैकदेशे भेदे तमिति तत्पदोपस्थाप्येश्वरस्यान्वयः, एवं ईश्वरभिन्नस्य विदधात्वर्थज्ञाने विषयतया, एवकारलभ्याभावे च ईश्वरभिन्नविषयकज्ञानप्रयोज्यत्वस्य क्त्वान्तार्थस्य प्रतियोगितया चान्वयः। तथा चेश्वरभिन्नविषयकत्वविशिष्टज्ञानप्रयोज्यत्वाभावबोध इति भावः । ब्रह्मैवाहमिति । न्यायमते विदित्वेत्यस्य तत्त्वमसीति वाक्यलभ्यभावनयाऽहं ब्रह्मास्मीति बुद्धे ब्रह्माभिन्नजीवात्मविषयकत्वेनापि मुक्तिकारणताया वक्तुं शक्यत्वादित्यभिप्रायः । ननु परमात्मजीवात्मनोर्भेदेन तयोरभेदज्ञानस्य भ्रमत्वात्कथं तस्य मुक्तिजनकत्वं यथार्थज्ञानरूपतत्त्वज्ञानस्यैव मुक्तिहेतुत्वादित्याशङ्कते- आत्मनानात्वमत इति । आत्मनानात्वं चात्मत्वविशिष्टभेदत्वम् । वैशिष्ट्यं च स्वाश्रयप्रतियोगिकत्व-स्वाश्रयानुयोगिकत्वोभयसम्बन्धेन । आत्मत्वव्याप्यपर्याप्तैकत्वान्यसङ्ख्यारूपं वा नानात्वं बोध्यम् । समाधत्ते-तथापीति । अगत्या तत्त्वज्ञानपदस्य तादृशाभेदज्ञानपरत्वमेव कल्पनीयमिति