________________
परिशिष्ट-१
२३३
तमेव विदित्वेत्यस्य सामञ्जस्यादिति वदन्ति ।
(३९) दीधितिकृत्प्रभृतयस्तु 'न वारे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति' इत्यादिनात्मनः सुखाद्यर्थं तत्सम्पादकतया पतिपुत्रादेरनुरागविषयत्वरूपं प्रियत्वमुक्तम् तत्रात्मपदमात्मपरमेव न त्वीश्वरपरं तस्य सुखाभावात् । तत्रानन्दं मन्यमानानामपि तदानन्दस्य नित्यत्वाभ्युपगमात्तस्योद्देश्यत्वासम्भवात् । “सर्वेषामेव भूतानां नृप स्वात्मैव वल्लभ' इत्यादावपि स्वात्मन एव निरुपाधिप्रियत्वाभिधानात् । एवञ्च स्वात्मन एवोपक्रान्ततया 'आत्मा वारे श्रोतव्य' इत्यादिश्रुत्या स्वात्मनः श्रवणादेरेव मोक्षहेतुता प्रत्याय्यते न तु परमात्मनः । न च मिथ्याज्ञानवासनाधर्माधर्मोच्छेदद्वारा आत्यन्तिकदुःखनिवृत्तावुपयोगित्वं स्वात्मतत्त्वज्ञानस्य तादृशश्रुतितात्पर्यविषयोऽस्तु तावतापीश्वरसाक्षात्कारस्य तमेव विदित्वेत्यादिश्रुतिसिद्धमपरहेतुत्वं निराबाधमेवेति वाच्यम् । धर्माधर्मोच्छेदेनैवात्यन्तिकदुःखादिविगमरूपमुक्तिनिर्वाहे तत्र परमात्मसाक्षात्कारस्य हेतुतायां युक्तिविरहे तमेव विदित्वा इत्यादिश्रुतेर्जीवब्रह्माभेदचिन्तारूपयोगाभ्यासस्य स्वात्मसाक्षात्कारसम्पादनद्वारा मुक्त्युपयोगितायामेव योगाभ्यासविध्येकवाक्यतानुरोधेन तात्पर्यकल्पनौचित्यात् । एवञ्च एवकारव्यत्यासोऽपि न क्षतिमावहति । नान्यः पन्था विद्यते इत्यादिभागस्य च एवकारस्य तात्पर्यप्रकाशकत्वेन सार्थक्यसम्भवात् 'महेश्वरस्त्र्यम्बक एव नापर' इत्यादौ नापरभागस्येवेत्याहुः ।
(४०) तन्मते योगिनस्तं प्रपश्यन्ति भगवन्तमधोऽक्षजमित्यादीनां योगाभ्यासस्य परमब्रह्मकलकत्वरूपयथाश्रतार्थे विरोधो दुष्परिहरः ।।
भावः । अत्र आत्मा वाऽरे इत्यादिश्रुतेरयुक्तार्थत्वकल्पनमेव वदन्तीत्यनेनास्वरसः सूचितः ।
आत्मपदस्य जीवपरत्ववादिनां दीधितिकृतां मतमुत्थापयति-दीधितिकृदिति । न वारे इत्यादि । पत्न्या इति शेषः । पत्युः सुखमात्रमुद्दिश्य पत्न्या न पतिः प्रियो भवति किन्तु स्वसुखमुद्दिश्य पतिरनुरागविषयो भवतीत्यर्थः । स्वव्यापारजन्यस्नेहभागित्वेनोत्कटेच्छा अनुरागः । तुष्यतु दुर्जन इति न्यायेन जीवात्मनो निरुपाधिप्रियत्वे जीवमात्रबोधकपदघटितप्रमाणमाह-सर्वेषामेवेति । तथा च वल्लभ इत्यस्य निरूपाधिप्रिय इत्यर्थः । अहं सुखी स्यामित्याकारकस्वेतरधर्मिकसुखवत्त्वप्रकारकेच्छानधीनसुखवत्त्वेच्छाविशेष्यत्वं निरूपाधिप्रियत्वम् । एवं चेश्वरसुखस्यानुद्देश्यत्वे स्वात्मन एव निरुपाधिप्रियत्वे च । श्रवणादेरेवेति । सर्वेभ्यो दर्शपौर्णमासावित्यत्र सर्वशब्दस्य प्रक्रान्तपश्वादिफलवत्त्व इवात्मसमुदायस्य श्रवणाद्यसम्भवेनात्मन एकस्य श्रवणादिमत्त्वे प्रकरणमेव विनिगमकं वाच्यमित्यभिप्रायः । युक्तिसिद्धार्थकल्पनमेव ज्याय इत्याशयेन समाधत्ते-धमाधमेति । एवं च तमेवेत्यस्य जीवब्रह्माभेदचिन्ताया मोक्षोपयोगित्वपरत्वे च । महेश्वर इति । तथा चैवकारेणैव त्र्यम्बकान्ये महेश्वरपदप्रतिपाद्यत्वव्यवच्छेदप्रतिपादनात् यथा नापर इति भागो तद्विवरणरूपतया सार्थकस्तथाऽत्रापीति भावः ।
(४०) तन्मत इति तन्मते योगाभ्यासस्य जीवात्मसाक्षात्कारफलकत्ववादिमते । योगस्य योगजधर्मद्वारा विश्वभासकतया ईश्वरभासकत्वमर्थादापतितमिति वस्तुस्थितिमनुरुध्य भाववर्णनेन विरोध इत्याह-यथाश्रुतार्थ इति । तथा च ज्ञात्वा ज्ञात्वा गरलभोजी यात यमालयमित्यत्र गरलभोजनस्य साक्षान्मरणफलकत्वबोधस्येव योगिन इत्यत्र योगस्य साक्षात्परमात्मसाक्षात्कारफलकत्वबोध इति भावः ।