________________
२३४
मुक्तिवादः
(४१) अथ काश्यादिमरणपुरुषोत्तमादिमुखदर्शनादिरूपकर्मणामपि बहुशो मोक्षोपायताश्रुतेः कथं नान्यः पन्था इत्यादेः सामञ्जस्यम्, कथं वा अननुगतानां ज्ञानकर्मविशेषाणामनुगतं मोक्षम्प्रति हेतूतानिर्वाहः ? । तृणारणिमणीनां वह्निहेतुता च कार्यवैजात्येनेति व्यभिचारविरहात् । मोक्षे चाभावरूपे न जातिविशेषकल्पनसम्भवः । न च प्रतियोगिनि दुःखे दुरिते वा जातिविशेषान् कल्पयित्वा तदवच्छिन्नप्रतियोगिनां स्वाश्रयप्रतियोगिकत्वसम्बन्धेन तेषामेव वा जन्यतावच्छेदकत्वमुपगम्य व्यभिचार: शक्यते वारयितुम् गोवधादिजन्यतावच्छेदकजातिभिः सङ्करप्रसङ्गेन जातिकल्पनानवकाशात् । न च गोवधादिजन्यतावच्छेदकजातीनां नानात्वोपगमान्न सङ्करप्रसङ्ग इति वाच्यम् । तासां नानात्वं तत्त्वज्ञानादिनाश्यतावच्छेदक जातीनां वा नानात्वमित्यत्र विनिगमक स्य दुर्लभत्वात् । एवं वेदबोधितवैकल्पिकहेतृतास्थले समचितेभ्यो न फलसिद्धिः सम्वलितव्रीहियवाभ्यामेकयोगाननष्ठानादिति तृणारणिमणिवत् ज्ञानकर्मणां हेतुत्वे तत्संवलने मोक्षाभावप्रसङ्गात् । नापि ज्ञानकर्मणां समुच्चितानां मोक्षहेतुतास्वीकारात् सामञ्जस्यम्, तत्त्वज्ञानोपाययोगाभ्यासेऽसाध्यताबुद्धौ मोक्षहेतुतत्तत्कर्मसु प्रवृत्यनुपपत्तेः, मथुराकाशीमरणादीनां संवलनासम्भवात् । साहित्यविनिर्मोकेण श्रुत्याऽनेकेषां कारणता
(४१) ननु सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग् ज्ञानेन ब्रह्मचर्येण चेत्यादि श्रुत्या,
उभाभ्यामेव पक्षाभ्यां यथा स्यात् पक्षिणो गतिः ।
तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥ इत्यादि स्मृत्या च ज्ञानवत् कर्मापि मुक्तिकारणं लभ्यते तत्कथं तमेवेत्यादिना ज्ञानस्यैव तद्धेतुत्वमुच्यत इत्यभिप्रायेणाशङ्कते-अथेति । कर्मणां मोक्षहेतुत्वे व्यभिचारमपि दर्शयति-कथं वेति । तृणारणीति । वह्नौ तृणादीनां निरपेक्षनानाव्यक्तीनां कारणत्वं तु कार्यवैलक्षण्यान्न व्यभिचारीत्यर्थः। अभावरूप इति । तथा च सम्बन्धाभाव एव जातिबाधक इति तात्पर्यम् । तदवच्छिन्नप्रतियोगिनामिति । प्रतियोगितासम्बन्धेनेति शेषः । सङ्करप्रसङ्गेनेति । तत्त्वज्ञाननाश्यतावच्छेदकजातिशून्ये काशीमरणाविनाश्यदुरिते गोवधादिजन्यतावच्छेदकजातेस्तादृशजातिशून्ये च ब्रह्मवधादिजन्यदुरिते तत्त्वज्ञाननाश्यतावच्छेदकजातेश्चाभावात्तत्त्वज्ञानविनाश्यगोवधादिजन्यदुरिते चोभयसमावेशात्सङ्करप्रसङ्ग इत्यर्थः । दुर्लभत्वादिति । तत्त्वज्ञानकाशीमरणादिजन्यतावच्छेदकजातिव्याप्या यावत्यो गोवधादिजन्यतावच्छेदकजातयः सम्भवन्ति गोवधादिजन्यतावच्छेदकजातिव्याप्यास्तत्त्वज्ञानादिनाश्यतावच्छेदकजातयोऽपि तावत्यस्सम्भवन्तीति विनिगमनाविरहस्तथा च गोवधादीनां तत्तज्जात्यवच्छिन्नकार्यतानिरूपितकारणतानां तत्त्वज्ञानकाशीमरणादीनाञ्च तत्तदनन्तजात्यवच्छिन्नकार्यतानिरूपितकारणतानां च कल्पनेनातीवगौरवात् दुर्जेयत्वाच्च तदसम्भव इत्याशयः । ननु दुरितनिष्ठतत्त्वज्ञानादिजन्यतावच्छेदकजात्यङ्गीकारे तत्तज्जात्यवच्छिन्नं प्रति गोवधत्वादिना कारणताया वक्तव्यतया तादृशजन्यतावच्छेदकवैजात्यमेव कल्पनीयम्, तत्त्वज्ञानादिनाश्यतावच्छेदकजातिकल्पने च तत्तज्जात्याश्रयनाशम्प्रति तत्त्वज्ञानत्वादिना कारणताया वाच्यतया तत्तज्जातितत्तदाश्रयादिषु अवच्छेदकत्वेन गुरुधर्मावच्छिन्नानन्तकारणताकल्पने परमते गौरवमेव, अव्यवहितोत्तरत्वं कार्यतावतावच्छेदककोटौ प्रवेश्य वा व्यभिचारो निरसनीय इत्यत आह-एवमिति । नापीति । एतेन तत्त्वज्ञानादीनामसहभावेन कारणतायामुक्तदोषेऽपि साहित्येन सा स्यादित्यपि निरस्तम् । तत्तत्कर्मसु= काशीमरणादिषु । ननु येषां कर्मणां संवलनमसम्भवी तत्सहभावेन ज्ञानादीनां पृथक् पृथक् हेतुत्वं वाच्यम्