________________
परिशिष्ट-१
२३५
यत्र प्रत्याय्यते तत्र विकल्प एव व्रीहियवादिवदित्युपायकारोक्तसिद्धान्तभङ्गश्चैवमापद्येत, तदनादरे व्रीहियवस्थलेऽपि समुच्चयप्रसङ्गात् वाजेपयाग्निष्टोमादीनामपि मिथः सहकारिताप्रसङ्गाच्चेति ।
(४२) मैवम् । सर्वत्रात्मतत्त्वज्ञानमेव साक्षान्मोक्षे हेतुः काशीमरणादेश्च तत्त्वज्ञानद्वारैव मोक्षोपायता काशीमरणादीनां मोक्षापायताबोधकश्रुतीनां तत्कारणतया नार्थ अपि तु प्रयोजकत्वमेव । अत एव ज्ञानेन सह काशीमरणादेारद्वारिभावेन समुच्चयेऽपि साहित्यं विना वेदबोधितानेककारणतास्थले समुच्चय इति सिद्धान्तस्याप्यविरोधः । तत्त्वज्ञाने मानसात्मके काशीमरणजन्यतावच्छेदकतया जातिविशेषाणां मानसत्वव्याप्यानां कल्पयितुं शक्यतया मिथो व्यभिचारानवकाशात् ।
(४३) मृतशरीरावच्छेदेन ज्ञानोत्पत्त्यसम्भवेन काशीमरणाद्युत्तरं शरीरान्तरपरिग्रहोऽपि कल्प्यतेऽनन्यगतिकत्वात् । भगवतो महारुद्रस्य तारकोपदेशस्तु मुमूर्षुतादशायामेव मृतस्योपदेशासम्भवात् । तथा च श्रुतिः 'अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति' । तदुपदेशस्यादृष्टद्वारा शरीरान्तरपरिग्रहाधीनात्मतत्त्वसाक्षात्कारजनकत्वम् । न च मुमूर्षुतादशायां तारकोपदेशे तच्छरीरावच्छेदेनैवात्मतत्त्वसाक्षात्कारसम्भवात् किमर्थं शरीरान्तरस्वीकारः ? इति वाच्यम् । तच्छरीरावच्छेदेन तारकमन्त्रोपदेशादात्मतत्त्वज्ञानस्वीकारे काशीमरणहेतुत्वानुपपत्तेः । यदि च काशीमरणकारणताबोधकवाक्यानां तदानीमाबोधकस्य तारकोपदेशस्य हेतुतायामेव तात्पर्यम्, अन्यथा एकेनापरस्यान्यथासिद्धेर्दुष्परिहारत्वादित्युच्यते तदा तच्छरीरावच्छेदेनापि तत्त्वज्ञानसम्भवो बोध्यः ।
व्यभिचारोऽप्यव्यहितोत्तरत्वं निवेश्य वारणीय अत आह-साहित्येति । ननु स सिद्धान्तस्तादृशस्थल एवेत्याशङ्क्याह-वाजपेयेति । सामान्यतः स्वर्गफलकानामग्निष्टोमादीनां श्रुत्या प्रतिपादनात्तादृशसिद्धान्तानङ्गीकारे मिलितानां तेषां कारणत्वापातः, इष्टापत्तौ पृथगनुष्ठानानुपपत्तिः । उक्तसिद्धान्तस्वीकारे व्यभिचारवारणन्तु कार्यवैजात्यं प्रकल्प्य सुकरमिति भावः ।
__ (४२) ज्ञानकर्मणां व्यापारव्यापारिभावमवलम्ब्य समाधत्ते-मैवमिति । साहित्यं विनेति । स्वकारणतासाहित्यबोधकपदं विनेति तदर्थः । ननु तत्त्वज्ञानहेतूनां योगाभ्यासकाशीमरणादीनामनेकत्वेन परस्परं व्यभिचारः स्यादत आह-तत्त्वज्ञान इति ।
(४३) मुमूर्षुतादशायां=मरणाव्यवहितप्राक्क्षणे । उपदेशासम्भवादिति। उपदेशो हि परज्ञानफलकस्तथा च मृतस्य शरीराभावाज्ज्ञानोत्पत्त्यसम्भवेन न तत्राप्तस्य प्रवृत्तिरिति भावः । अत्रेति । अत्र-काश्याम् प्राणेष्वित्यत्र प्राणनिर्गमनप्राक्कालीनत्वं भावसप्तम्यर्थस्तस्य च 'व्याचष्टे' इत्यत्रान्वयः तथा च प्राणनिर्गमनप्राक्कालीनसंसारनिवर्तकोङ्काररूपब्रह्मोपदेष्टा भगवान् रुद्र इत्यर्थः । न चोङ्कारपरत्वं ब्रह्मशब्दस्यापसिद्धान्त इति वाच्यम् “ओमित्येकाक्षरं ब्रह्मेत्यादि" गीतायां "तद्वाचकः प्रणव" इति योगसूत्रे च ब्रह्मपदस्योङ्कारवाचकत्वात् । एकेनोपदेशेनापरस्य काशीमरणस्य मोक्षम्प्रतीति शेषः । तत्त्वज्ञानसम्भव इति । तथा चैतन्मते काशीमरणस्य भगवदुपदेशप्रयोजककाशीमरणप्राक्कालज्ञानसम्पादकतया तदुपदेशे प्रयोजकत्वमित्यर्थः । केषाञ्चिन्मतमाह-काशीमरणमिति ।