Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
मुक्तिवादः
(२१) यत्त्वविद्यानिवृत्त्या बुद्ध्यादिनिवृत्तौ तद्धर्मस्य दु:खस्य निवृत्तिरिति तदपि न युक्तिपथमारोहति बुद्धेः सुखदुःखाद्याश्रयत्वे तस्या विनाशे मानाभावात् । न च दुःखात्यन्तोच्छेदानुरोधात्तन्नाशोपगमः, तत्सत्त्वेऽप्यदृष्टोच्छेदादेव दुःखप्रवाहविच्छेदसम्भवात् । न चाश्रयनाशं विना अशेषादृष्टनाश एवानुपपन्नः, आश्रयसत्त्वेऽपि समानाधिकरणतत्त्वज्ञानादेवाशेषादृष्टनाशसम्भवात् । भवन्मतेऽप्यविद्यानाशे तद्धेतुताया आवश्यकत्वात् । पुनरदृष्टानुत्पत्तिश्च वासनादिविरहाद् योगिनां बुद्ध्यादिसत्त्वेऽप्यदृष्टोत्पत्त्या भवन्मतेऽप्यदृष्टस्य वासनाहेतुकत्वात् ।
२२४
(२२) अथाविद्याया पदार्थान्तरत्वे चेद्विशेषस्तदा माभूत्तस्यास्तथात्वम् । अदृष्टं मिथ्याज्ञानाहित वासनैव वा भवत्वविद्या । तत्त्वज्ञानन्त्वदृष्टनाशे न साक्षाद्धेतुरपि तु बुद्धिनाश एव । बुद्धेर्ज्ञानाद्याश्रयतया तत्त्वज्ञानस्याश्रयतारूपसाक्षात्सम्बन्धस्य नाशकतावच्छेदकतया लाघवाद् अदृष्टे सामानाधिकरण्यरूपपरम्परासम्बन्धेनैव तत्त्वज्ञानसत्त्वात् तस्य तन्नाशकत्वे नाशकतावच्छेदकप्रत्त्यासत्तिगौरवात् । न च प्रतियोगिनिष्ठप्रत्यासत्त्या ज्ञानस्यादृष्टनाशकत्वोपगम एव गौरवात् नाशाधिकरणनिष्ठसाक्षात्सम्बन्धेनैव तस्य तन्नाशं प्रति हेतुत्वमुपगन्तव्यमिति वाच्यम् । तथा सति नियामकाभावेनातिप्रसङ्गापातात् । एवं वासनानाशे तत्त्वज्ञानस्य पृथक्कारणताकल्पनेनापि न्यायमते गौरवम् तन्नाशादेवादृष्टनाशवत् वासनानाशोपपत्तेस्तत्त्वज्ञानस्य पृथक्कारणतानुपगमात् । अदृष्टादिनाशे च बुद्धिविनाशस्य कारणताया नाधिक्यम् आश्रयनाशस्याश्रितनाशं प्रति क्लृप्तकारणतयैवोपपत्तेः । तथा च तज्जीवोपाधिविगमोऽपवर्ग इत्येतदेवोचितमिति चेन्न ।
(२३) बुद्धितत्त्वस्यानादित्वे विनाशानुपपत्तेः, भावनाशे जन्यत्वेन प्रतियोगिनो हेतुत्वात् । सादित्वे च बुद्धिधर्मादृष्टप्रवाहस्यापि सादितया प्रथममदृष्टवैचित्र्यं भोगादिकार्यवैचित्र्यञ्च न स्यात् । न चादृष्टजनककृतिवैचित्र्यम् प्रथमतः कृतिवैचित्र्यप्रयोजकस्यैव दुर्लभत्वात् । तस्माददृष्टसमवायिनो
(२१) आश्रयविनाशेनाश्रितनाश इति मतेनाशङ्क्य समाधत्ते - यत्त्वित्यादिना । वासनाहेतुकत्वाद् इति । तथा चाविद्यानाशं प्रति तत्त्वज्ञानस्य हेतुत्वमुपेत्य परम्परया दुःखनिवृत्तिकल्पनामपेक्ष्य साक्षात्तत्त्वज्ञानस्य धर्माधर्मरूपादृष्टनाशम्प्रति हेतुत्वकल्पनमुचितमिति भावः ।
(२२) शङ्कते अथेति । तथात्वं-पदार्थान्तरत्वम् अविद्याया माभूदित्यन्वयः । अदृष्टस्य विद्याविरोधित्वं कथमतः कल्पान्तरमाह - मिथ्याज्ञानेति । तदभाववति तत्प्रकारकत्वरूपमिथ्याज्ञानजन्यवासनाया विद्यया तद्वति तत्प्रकारकत्वरूपया विरोधः सुलभः, अदृष्टस्य तु विद्यासत्त्वेऽपि सत्त्वान्न विरोध इति भावः । न साक्षाद्धेतुरिति । न साक्षात्सम्बन्धेन हेतुरित्यर्थः । तस्य=तत्त्वज्ञानस्य, तन्नाशकत्वेऽदृष्टनाशकत्वे । न चेति । प्रतियोगितासम्बन्धेनादृष्टनाशत्वावच्छिन्नम्प्रति तत्त्वज्ञानत्वेन कारणतायां गौरवादाश्रयतासम्बन्धेनादृष्टनाशम्प्रति तत्त्वज्ञानत्वेन कारणत्व एव लाघवादिति भावः । नियामकाभावेनेति । कुत्रचिन्नाशप्रतियोगित्वं कुत्रचिन्नेत्यस्य प्रयोजकाभावेन सुखादावपि तादृशनाशप्रतियोगित्वप्रसङ्गात् इत्यर्थः ।
(२३) भावनाश इति । प्रागभावे व्यभिचारनिरासाय भावपदम् । जन्यत्वेनेति । अन्यथाऽस्मन्मते गगनादौ त्वन्मते च ब्रह्मणि व्यभिचारः स्यात् । सादित्वे च = स्वसमानजातीयासमानकालीनप्रागभावप्रतियोगित्वे च । विलक्षणभोगजनकतावच्छेदकादृष्टत्ववत्त्वम् वैचित्र्यम् । आश्रयाभावेनादृष्टस्याभावाद्भोगादिकार्यवैलक्षण्यं च न भवेदित्यर्थः । दुर्लभत्वादिति । आदौ बुद्धिरूपा

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285