Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 244
________________ परिशिष्ट-१ २१३ (५) अथ दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते । न हि मूर्छाद्यवस्थायां प्रवृत्तो दृश्यते सुधीः ॥ इति न मुक्तिज्ञानं सम्भवतीति चेन्न । न हि दुःखाभावं जानीयामित्युद्दिश्य प्रवृत्तिः, किन्तु दुःखं मे माभूदित्युद्दिश्य स्वत एव बहतरदःखजर्जरकलेवरा द:खाभावमद्दिश्य मरणे प्रवर्तमाना दृश्यन्ते ।। (६) अथ दुःखनिवृत्तिः दुःखस्य ध्वंसरूपोऽभावः, न तु प्रागभावात्यन्ताभावौ नित्यत्वेनाऽसाध्यत्वात् ध्वंसस्य चाऽनन्तरोत्पन्नविशेषगुणादेव सम्भवेन न तत्त्वज्ञानाद्युपयोगः। ननु स्वसमानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वरूपात्यन्तिकत्वाविशेषितदुःखध्वंसत्वरूपापवर्गत्वावच्छिन्नत्वस्य तत्त्वज्ञाननिरपेक्षकारणान्तरान्न निर्वाह इति चेदेवमपि न तादृशधर्मस्य तत्त्वज्ञानजन्यतावच्छेदकत्वसम्भवः । चरमदुःखध्वंसदशायां तद्वत्यात्मनि दुःखजनकाधर्मरूपकारणविरहेण दुःखानुत्पत्त्याऽर्थवशादेव तस्य स्वसमानाधिकरणदुःखाऽसमानकालीनत्वनिर्वाहात् । अर्थसमाजरूप इत्यतः सामग्री विभज्य विवेकिनान्तदभावं दर्शयति-विवेकिनान्त्विति । विवेकिनां दुःखबहुलतया सुखे नोत्कटराग इति तदभावेऽपि प्रवृत्तिप्रतिबन्धात् इति भावः । स्यादेतत्-ऐहिकं सुखं तावत् बहुतरदुःखानुविद्धतया विवेकिनां प्रवृत्त्यजनकमस्तु स्वर्गसुखस्य दुःखासम्भिन्नतया तत्रोत्कटेच्छा जायते एव इत्यत आह-स्वर्गेऽपीति । क्षीणे पुण्ये मर्त्यलोकं विशन्तीति भगवदुक्तेः । क्षयितयेति । 'दृशवदानश्रविकः स ह्यविशद्धिक्षयातिशययक्त इति कपिलोक्तेः । प्रवत्तिनिवत्तिभ्यामिति । कल्पना चात्रानुमानम् । तद्यथा रागनिष्ठप्रवृत्तिजनकत्वं किञ्चिदवच्छिन्नं जनकतात्वात्, घटजनकतावत् । न चेच्छात्वावच्छिन्नं तत्सम्भवति अनुत्कटेच्छायामिच्छात्वस्य तादृशजनकताव्यभिचारात् । तथा चेच्छात्वावच्छिन्नत्वस्य बाधनिश्चयात्तदवान्तरधर्मावच्छिन्नत्वसिद्धिः । स च धर्मो बाधकाभावाज्जातिरेवेति । तन्नियामिकेति । उत्कटरागद्वेषनियामिके त्यर्थः । तत्तज्ज्ञानव्यक्त्येति । प्रतिबन्धकाभावरूपकारणस्य प्रतियोगिविधया बहुतरदुःखानुविद्धत्वादिज्ञानव्यक्त्येत्यर्थः । अननुगतैवेति । तथा च फलदर्शनादर्शनाभ्यां सामग्र्याः सत्त्वासत्त्वे कल्पनीये इति भावः । तादृशज्ञानाभावत्वेनानुगतकारणताकल्पने बाधकमाह-तुल्येऽपीति । तथा च विवेकिनिष्ठबहुतरदुःखानुविद्धत्वपातभयादिजन्यदुःखानुविद्धत्वादिज्ञानव्यक्तेरेव सुखे उत्कटरागं तदभावे उत्कटद्वेषं च प्रति प्रतिबन्धकत्वं कल्पनीयम्, न तु विषयिनिष्ठतादृशज्ञानव्यक्तेरिति हृदयम् । __ (६) ननु अस्तु उक्तयुक्त्या मोक्षोपाये प्रवृत्तिः, किन्तु मोक्षो यदि क्लृप्तोपायसाध्यः स्यात्, भवेच्च यदि मुक्तित्वं जन्यतावच्छेदकं तदा तदुपाये योगाभ्यासादौ प्रवृत्तिरुपपद्यत इति आशयेनाशङ्कतेअथेति । अत्यन्तदुःखनिवृत्तिरूपमुक्तिपदार्थे दुःखनिवृत्तिशब्दार्थस्य कल्पत्रयेणासम्भवं दर्शयतिध्वंसरूपोऽभाव इति । प्रागभावात्यन्ताभावयोः नित्यत्वेन प्रागभावाप्रतियोगित्वेनासाध्यत्वात् अजन्यत्वात् । तथा चाजन्यस्य प्रवृत्त्यनुद्देश्यत्वान्न तमुद्दिश्य योगाद्युपाये प्रवृत्तिरिति कल्पद्वयनिरासः । ध्वंसपक्षे तदव्यवहितोत्तरोत्पन्नविशेषगुणादेव दुःखध्वंससम्भवेन न तत्र तत्त्वज्ञानाद्युपायापेक्षेति भावः । कारणत्वकुक्षिप्रविष्टान्वयव्यतिरेकव्याप्तिघटितान्वयव्यतिरेकव्यभिचारासम्भवात् तत्त्वज्ञानस्यात्यन्तदुःखनिवृत्तिरूपापवर्गत्वावच्छिन्नं प्रति कारणत्वे को दोष इत्याशयेनाक्षिप्य समाधत्ते-नन्विति । स्वपदं दुःखध्वंसपरम् । प्रलयकालीनदुःखध्वंसानां पुरुषान्तरीयदुःखप्रागभावसमानकालीनतया तत्राव्याप्ति

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285