Book Title: Mokshshastram Author(s): Umaswami, Umaswati, Publisher: Jain Granth Ratnakar Karyalay View full book textPage 6
________________ तत्त्वार्थसूत्रम् । औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ दिनवाटादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रि त्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः॥६॥जीक भव्याऽभव्यत्वानि च ॥७॥ उपयोगो लक्षणम् ॥ ८॥ स दिविधोऽष्टचतुर्भेदः॥९॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्कामनस्काः ॥ ११ ॥ संसारिणस्त्रसस्थावराः ॥ १२ ॥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥१३॥ दीन्द्रियादयस्त्रसाः ॥ १४॥पञ्चेन्द्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७ ॥ लब्ध्युपयोगी भावेन्द्रियम् ॥१८॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्रा णि॥ १९॥ स्पर्शरसगन्धवर्णशब्दास्तदर्थाः॥२०॥ श्रुतमनिन्द्रियस्य ॥ २१॥ वनस्पत्यन्तानामेकरPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26