Book Title: Mokshshastram
Author(s): Umaswami, Umaswati,
Publisher: Jain Granth Ratnakar Karyalay
View full book text
________________
मोक्षशास्त्रम् । इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ५॥ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः॥६॥अधिकरणं जीवाजीवाः ॥७॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः॥८॥निर्वर्तनानिक्षेपसंयोगनिसर्गाद्विचतुर्दित्रिभेदाः परम् ॥९॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥१०॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्धेद्यस्य ॥११॥ भूतवृत्त्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्भेद्यस्य ॥ १२ ॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३॥ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥ १५॥ माया तैर्यग्योनस्य ॥ १६ ॥अल्पारम्भापरिग्रहत्वं मानुषस्य ॥ १७ ॥ स्वभावमार्दवं च ॥१८॥ निःशीलवतत्वं च सर्वेषाम् ॥१९॥ सरागसंयमसंयमासंयमाऽकामानिर्जराबालतपांसि दै.

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26