Book Title: Mokshshastram
Author(s): Umaswami, Umaswati, 
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 19
________________ मोक्षशास्त्रम् । ॥३८॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः॥३९॥ .. इति तत्त्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्यायः ॥ ७॥ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १॥ सकषायत्वान्जीवः कर्मणोयोग्यान्पुद्गलानादत्तेस बन्धः॥शाप्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः॥३॥ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः॥४॥पञ्चनवद्यष्टाविंशतिचतुर्दिचत्वारिंशद्धिपञ्चभेदा यथाक्रमम् ॥५॥मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥६॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ सदसद्धेद्य॥८॥ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिदिनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकपायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः॥९॥ नारकतैर्यग्योनमानुषदैवानि ॥१०॥गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहनन

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26