Book Title: Mokshshastram
Author(s): Umaswami, Umaswati, 
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 20
________________ तत्त्वार्थसूत्रम् । १७, स्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययश कीर्तिसतराणि तीर्थकरत्वं च ॥११॥ उच्चैर्नीचैश्च ॥ १२ दानलाभभोगोपभोगवीर्याणाम् ॥१३॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिः ॥ १४ ॥ सप्ततिर्मोहनीस्य ॥१५॥ विंशतिर्नामगोत्रयोः॥ १६ ॥ त्रयस्त्रिंशत्सागरोपमाण्यायुषः॥१७ ॥ अपरा द्वादशमुहूर्ता वेदनीयस्य १८॥ नामगोत्रयोरष्टौ ॥ १९ ॥ शेषाणामन्तर्मुहूर्ताः॥ २० ॥ विपाकोनुऽभवः ॥२१॥ स यथानाम ॥२२॥ ततश्च निर्जरा ॥ २३॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४॥ सदेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ अतोऽन्यत्पापम् ।। २६॥ इति तत्त्वाधिगमे मोक्षशास्त्रेऽष्टमोध्यायः ॥ ८॥ आस्रवनिरोधः संवरः ॥१॥ स गुप्तिसमिति

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26