Book Title: Mokshshastram
Author(s): Umaswami, Umaswati,
Publisher: Jain Granth Ratnakar Karyalay
View full book text
________________
तरवार्थसूत्रम् । २१ नां च ॥३॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिइत्वेभ्यः॥४॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥ पूर्वप्रयोगादसङ्गत्वादन्धच्छेदात्तथागतिपरिणामाच्च ॥ ६॥ आविद्धकुलालचक्रवक्ष्यपगतलेपालाबुवदेरण्डबीजवदमिशिखावच्च ॥ ७ ॥ धर्मास्तिकायाऽभावात् ॥८॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः॥९॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः॥ १० ॥
अक्षरमात्रपदस्वरहीनं व्यञ्जनसन्धिविवर्जितरेफम् । । साधुभिरत्र मम क्षामितव्यं को न विमुह्यति शास्त्रसमुद्रे ॥१॥ दशाध्याय परिच्छिन्ने तच्चार्थे पठिते सति ।। फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः ॥ २ ॥ तत्त्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितम् ।। वन्दे गणीन्द्रसंजातमुमास्वामिमुनीश्वरम् ॥३॥ इति तत्त्वार्थमूत्रापरनाम तत्त्वार्थाधिगममोक्षशास्त्रं समाप्तम् ।

Page Navigation
1 ... 22 23 24 25 26