Book Title: Mokshshastram
Author(s): Umaswami, Umaswati,
Publisher: Jain Granth Ratnakar Karyalay
View full book text
________________
मोक्षशास्त्रम् ।
- रतदेशविरतयोः ॥ ३५ ॥ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् || ३६ | शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ परे केवलिनः ॥ ३८ ॥ पृथ्वक्त्वैकत्ववितर्कसूक्ष्म क्रियाप्रतिपातिव्युपरत क्रियानिवर्तीनि ॥ ॥३९॥ त्र्येकयोगकाययोगायोगानाम् ॥४०॥ एकाश्रये सवितर्कवीचा पूर्वे ॥ ४१ ॥ अवीचारं द्वितीयम् ॥ ४२ ॥ वितर्कः श्रुतम् ॥ ४३ ॥ वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षप कोपशमकोपशान्तमाहक्षपकक्षीण मोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ पुलाकवकुशकुशील निर्गन्थस्नातका निर्ग्रन्थाः ॥ ४६ ॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्य पपादस्थानविकल्पतःसाध्याः॥४७॥
इति तवार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ॥ ९॥
२०
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥ १ ॥ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्म्मविप्रमोक्षो मोक्षः ॥ २ ॥ औपशमिकादिभव्यत्वा

Page Navigation
1 ... 21 22 23 24 25 26