Page #1
--------------------------------------------------------------------------
________________
श्रीपरमात्मने नमः ।
मोक्षशास्त्रम् ।
प्रकाशक
श्रीजैन ग्रन्थ-रत्नाकर कार्यालय,
बम्बई ।
मूल्य दो आने ।
Page #2
--------------------------------------------------------------------------
________________
efnahahhahahahahahhahahahhahan
श्रीपरमात्मने नमः। श्रीमदुमास्वामिविरचित मोक्षशास्त्र
अथवा तत्त्वार्थसूत्र।
Grrrrrrrrrrrrrrningsmannarra
प्रकाशक
श्रीजैन-ग्रन्थ-रत्नाकर कार्यालय,
बम्बई।
भाद्र १९७९ विक्रम। अष्टमावृत्ति] [मूल्य दो आने । essmanismssymsimsim
Page #3
--------------------------------------------------------------------------
________________
मुद्रक, अनंत बाळकृष्ण घगवे, 'श्रीसरस्वती' मुद्रणालय, ५१४,
गिरगांव-बम्बई !
प्रकाशक, नाथूराम प्रेमी, जैन-प्रन्य-रत्नाकर कार्यालय, हीराबाग, पो. गिरगांव, बम्बई ।
Page #4
--------------------------------------------------------------------------
________________
श्रीपरमात्मने नमः। आचार्यश्रीमदुमास्वातिविरचितं
मोक्षशास्त्रम्
अपरनाम
तत्त्वार्थसूत्रम्। मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ॥१॥ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ तनिसर्गादधिगमादा ॥३॥ जीवाजीवास्रवबन्धसंवरनि र्जरामोक्षास्तत्त्वम्॥४॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५॥ प्रमाणनयैरधिगमः ॥ ६ ॥ निर्देशस्वामित्वसाधनाधिकरणास्थतिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुवैश्च ॥ ८॥ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९॥ तत्प्रमाणे ॥ १० ॥ आद्ये परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥१२॥ मतिःस्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनान्तरम् ॥ १३ ॥
Page #5
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् । तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ अवग्रहेहावायधारणाः ॥ १५ ॥ बहुबहुविधक्षिप्राऽनिःसृताऽनुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ अर्थस्य ॥१७॥ व्यञ्जनस्यावग्रहः ॥१८॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ श्रुतं मतिपूर्वं यनेकद्वादशभेदम् ||२०|| भवप्रत्ययोऽवधिर्देवनारकाणाम् ॥ २१ ॥ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ ऋजु विपुलमती मनःपर्य्ययः ॥ २३ ॥ विशुद्धयप्रति पाताभ्या तद्विशेषः ॥ २४ ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्य्यययोः ॥ २५ ॥ मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥ रूपष्ववधेः ॥ २७॥ तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥ ३० ॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३२ ॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ||३३||
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः ॥ १ ॥
Page #6
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्रम् । औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥१॥ दिनवाटादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥ सम्यक्त्वचारित्रे ॥३॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रि त्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥५॥ गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः॥६॥जीक भव्याऽभव्यत्वानि च ॥७॥ उपयोगो लक्षणम् ॥ ८॥ स दिविधोऽष्टचतुर्भेदः॥९॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्कामनस्काः ॥ ११ ॥ संसारिणस्त्रसस्थावराः ॥ १२ ॥ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥१३॥ दीन्द्रियादयस्त्रसाः ॥ १४॥पञ्चेन्द्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७ ॥ लब्ध्युपयोगी भावेन्द्रियम् ॥१८॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्रा णि॥ १९॥ स्पर्शरसगन्धवर्णशब्दास्तदर्थाः॥२०॥ श्रुतमनिन्द्रियस्य ॥ २१॥ वनस्पत्यन्तानामेकर
Page #7
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् । ॥ २२ ॥ कृमिपिपीलिका भ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥ संज्ञिनः समनस्काः ॥ २४ ॥ विग्रहगतौ कर्मयोगः ॥ २५ ॥ अनुश्रेणि गतिः ॥ || २६ || अविग्रहा जीवस्य ॥ २७ ॥ विग्रहवती च संसारिणः प्राक्चतुर्भ्यः ॥ २८ ॥ एकसमयाऽविग्रहा ॥ २९ ॥ एकं द्वौ त्रीन्वाऽनाहारकः ॥ ३०॥ सम्मूर्च्छनगर्भोपपादा जन्म ॥ ३१ ॥ सचित्तशीत - संवृताः सेतरा मिश्राचैकशस्तद्योनयः ॥ ३२ ॥ जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥ देवनारका गामुपपादः ॥ ३४ ॥ शेषाणां सम्मूर्च्छनम् ||३५|| औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६ ॥ परं परं सूक्ष्मम् ॥ ३७ ॥ प्रदेशतोऽसंख्येयगुणं प्राकू तैजसात् ॥ ३८ ॥ अनन्तगुणे परे ॥३९॥ अप्रतीघाते ॥४०॥ अनादिसम्बन्धे च॥४१॥ सर्वस्य ॥ ४२ ॥ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ||४३|| निरुपभोगमन्त्यम् ||४४|| गर्भसम्मृर्च्छनजमाद्यम् ॥४५॥ औपपादिकं वैक्रियिकम् ॥ ४६ ॥ लब्धिप्रत्ययं च ॥ ४७ ॥ तैजसमपि
Page #8
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्रम् ।
॥ ४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमतसंयतस्यैव ॥ ४९ ॥ नारकसम्मूर्च्छिनो नपुंसकानि ॥ ५० ॥ न देवाः ॥ ५१ ॥ शेषास्त्रिवेदाः ॥ ५२ ॥ औपपादिकचरमोत्तमदेहाऽसंख्येय वर्षायुषोऽनपवर्त्यायुषः ॥ ५३ ॥
इति तवार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः ॥ २॥
रत्नशर्कराबालुकापङ्कधूमतमोमहातमः प्रभा भूमयो घनाम्बुवताकाशप्रतिष्ठाः सप्ताऽघोऽधः॥१॥ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ॥ २ ॥ नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ॥ ३ ॥ परस्परोदीरितदुःखाः ॥ ४ ॥ संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ॥ ५ ॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपणो वलयाकृतयः ॥ ८ ॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो
Page #9
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् । जम्बुद्धीपः ॥९॥ भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः॥ ११ ॥ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ मणिविचित्रपार्था उपरि मृले च तुल्यविस्ताराः ॥ १३ ॥ पद्ममहापद्मतिगिच्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि ॥ १४ ॥ प्रथमो योजनसहस्रायामस्तदईविष्कम्भो हृदः॥१५॥ दशयोजनावगाहः ॥ १६॥तन्मध्ये योजनं पुष्करम् ॥ १७॥तद्धिगुणद्विगुणा इदाः पुष्कराणि च ॥१८॥ तनिवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमास्थितयः ससामानिकपरिषत्काः॥१९॥गङ्गासिन्धुरोहिद्रोहितास्याहरिरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥ २० ॥द्वयोर्दयोः पूर्वाः पूर्वगाः ॥२१॥ शेषास्त्वपरगाः ॥ २२ ॥ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥ भरतः
Page #10
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्रम् । षड्विंशतिपञ्चयोजनशतविस्तारः षट्चैकोनविंशतिभागा योजनस्य ॥ २४ ॥ तद्विगुणदिगुणविस्तारा वर्षधरवर्षा विदेहान्ताः॥२५॥ उत्तरा दक्षिणतुल्याः ॥ २६ ॥ भरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २७ ॥ ताभ्यामपरा भूमयोऽवस्थिताः॥ २८ ॥ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥ २९ ॥ तथोत्तराः ॥ ३० ॥ विदेहेषु सङ्ख्येयकालाः ॥ ३१ ॥ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः॥ ३२ ॥ दि‘तकीखण्डे ॥३३॥ पुष्कराः च ॥॥३४॥ प्रामानुषोत्तरान्मनुष्याः ॥ ३५॥ आर्या म्लेच्छाश्च ॥ ३६ ॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३७ ॥ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । झात तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः ॥३॥
देवाश्चतुर्णिकायाः॥ १ ॥आदितनिषु पीतान्तलेश्याः॥२॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पो
॥ ३८॥ तियेग्योनिजानां च ॥ ३९॥
Page #11
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् ।
पपन्नपर्यन्ताः ॥ ३ ॥ इन्द्रसामा निकायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्याकल्विषिकाचैकशः ॥ ४ ॥ त्रायस्त्रिंशलोकपालवर्ज्या व्यन्तरज्योतिष्काः ॥ ५ ॥ पूर्वयोन्द्राः ॥ ६ ॥ कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ शेषाः स्पर्शरूपशब्दमनःप्रवचाराः ॥ ८ ॥ परेऽप्रवीचाराः ॥ ९ ॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ||१०|| व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥ ज्योतिष्काः सूर्य्याचन्द्रमसौ ग्रहनक्षत्रप्रकीकतारका ॥ १२ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ तत्कृतः कालविभागः॥१४॥ बहिरवस्थिताः ॥ १५ ॥ वैमानिकाः ॥ १६ ॥ कल्पोपपन्नाः कल्पातीताश्च ॥ १७ ॥ उपर्युपरि ॥ १८ ॥ सौधम्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वान तप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥ स्थि
V
Page #12
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्रम् । तिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषय-- तोऽधिकाः॥ २०॥गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥ पीतपद्मशुक्ललेश्या दित्रिशेषेषु ॥ २२ ॥ प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ ब्रह्मलोकालया लौकान्तिकाः ॥ २४ ॥ सारस्वतादित्यबयरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ विजयादिषु विचरमाः ॥ २६ ॥ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ स्थितिरसुरनागसुवर्णदीपशेषाणां सागरोपमत्रिपल्योपमाईहीनमिता ॥ २८ ॥ सौधर्मेशानयोः सागरोपमेडधिके ॥ २९ ॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३०॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥ ३१ ॥ आरणाच्युतादूर्वमेकैकेन नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥ ३२ ॥ अरापल्योपममधिकम् ॥ ३३ ॥ परतः परतः पूर्वपूर्वानन्तराः ॥ ३४ ॥ नारकाणां च द्वितीयादिषु ॥ ३५ ॥ दशवर्शसहस्राणि प्रथमायाम् ॥ ३६॥ भवनेषु च ॥ ३७॥ व्यन्तराणा
Page #13
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् ।
च ॥ ३८॥ परापल्योपममधिकम् ॥ ३९ ॥ ज्योति - ष्काणां च ॥ ४० तदष्टभागोऽपरा ॥ ४१ ॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४२॥ इति तत्त्वार्थाधियोगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥ द्रव्याणि ॥ २ ॥ जीवाश्च ॥ ३ ॥ नित्यावस्थितान्यरूपाणि ॥ ४ ॥ रूपिणः पुद्गलाः ।। ५ ।। आ आकाशादेकद्रव्याणि ॥ ६ ॥ निष्क्रियाणि च ॥७॥ असङ्खयेयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥ ८ ॥ आकाशस्यानन्ताः॥ ९ ॥ सङ्ख्येयासङ्घ चेयाश्च पुगलानाम् ॥ १० ॥ नाणोः ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२ ॥ धर्म्माधर्म्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ असङ्खयेयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपग्रहौ धम्माधर्म्म - योरुपकारः || १७ || आकाशस्यावगाहः || १८॥ शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ १९ ॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ वर्त्तनापरिणामक्रियाः पर
Page #14
--------------------------------------------------------------------------
________________
तच्चार्यसूत्रम्। वापरत्वे च कालस्य ॥ २२ ॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः॥२३॥शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ॥ अणवः स्कन्धाश्च ॥ २५ ॥ भेदसङ्घातेभ्य उत्पद्यन्ते ॥ २६ ॥ भेदादणुः ॥२७॥ भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥ सद्रव्यलक्षणम् ॥ २९ ॥ उत्पादव्ययधौव्ययुक्तं सत् ॥३०॥ तद्धावाव्ययं नित्यम् ॥३॥ अर्पितानर्पितसिद्धेः ॥ ३२॥ स्निग्धरूक्षत्वादन्धः ॥ ३३ ॥ न जघन्यगुणानाम् ॥ ३४ ॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ यधिकादिगुणानां तु ॥३६॥ बन्धेऽधिको परिणामिकौ ॥ ३७॥ गुणपर्ययवद्व्यम् ॥३०॥ कालश्च ॥ ३९ ॥ सोऽनन्तसमयः॥४०॥ द्रव्याश्रया निर्गुणा गुणाः॥४१॥ तद्भावः परिणामः ॥ ४२ ॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः ॥५॥
कायवाङ्मनःकर्म योगः॥ १ ॥ स आस्त्रवः ॥२॥ शुभः पुण्यस्याशुभः पापस्य ॥३॥सकपायाकषाययोः साम्परायिकर्यापथयोः ॥ ४॥
Page #15
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् । इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ५॥ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः॥६॥अधिकरणं जीवाजीवाः ॥७॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः॥८॥निर्वर्तनानिक्षेपसंयोगनिसर्गाद्विचतुर्दित्रिभेदाः परम् ॥९॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥१०॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्धेद्यस्य ॥११॥ भूतवृत्त्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्भेद्यस्य ॥ १२ ॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३॥ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥ १५॥ माया तैर्यग्योनस्य ॥ १६ ॥अल्पारम्भापरिग्रहत्वं मानुषस्य ॥ १७ ॥ स्वभावमार्दवं च ॥१८॥ निःशीलवतत्वं च सर्वेषाम् ॥१९॥ सरागसंयमसंयमासंयमाऽकामानिर्जराबालतपांसि दै.
Page #16
--------------------------------------------------------------------------
________________
तत्वार्थसूत्रम् ।
वस्य ॥ २० ॥ सम्यक्त्वं च ॥ २१ ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥ तद्विपरीतं शुभस्य || २३ || दर्शनविशुद्धिर्विनयसम्पन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ श
१३
तितस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचन भक्तिरावश्यकापरिहाणिर्मा - र्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ २४ ॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५ ॥ तद्विपर्य्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥ २६ ॥ विघ्नकरणमन्तरायस्य ॥। २७ ॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः ।। ६ ।।
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् ॥ १॥ देशसर्वतोऽणुमहती ॥ २ ॥ तस्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ३ ॥ वाङ्मनोगुप्तीर्यदाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥ ४ ॥ क्रोध लोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च ॥ ५॥ शून्यागारविमोचितावासपरोपरोधाकरण भैक्ष्य शु
Page #17
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् । सिधाजविसंवादाः पञ्च॥६॥स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥७॥ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ॥ ८ ॥ हिंसादिविहामुत्रापायावद्यदर्शनम् ॥९॥दुःखमेव वा ॥१०॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्वगुणाधिकक्लिश्यमानाविनयेषु ॥ ११ ॥ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ १३ ॥ असदभिधानमनृतम् ॥ १४ ॥ अदत्तादानं स्तेयम् ॥ १५॥ मैथुनमब्रह्म ॥ १६ ॥ मूर्छा परिग्रहः ॥ १७॥ निःशल्यो व्रती ॥ १८ ॥अगार्यनगारश्च ॥ १९ ॥ अणुव्रतोऽगारी ॥२०॥ दिग्देशानर्थदण्डविरतिसामायिकपोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च ॥२१॥ मारणान्तिकी सल्लेखनां जोषिता ॥२२॥शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥ २३ ॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥ बन्धवधच्छेदातिभारारो
Page #18
--------------------------------------------------------------------------
________________
तत्त्वार्यसूत्रम् ।
१५ पणानपाननिरोधाः ॥२५॥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥२६॥स्तेनप्रयोगतदाहतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः॥२७॥ परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतावाभिनिवेशाः॥२८॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणाऽतिक्रमाः ॥ २९ ॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि॥३०॥आनयनप्रेष्यप्रयोगशब्दरूपानुपातपदलक्षेपाः॥३१॥कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥३२॥ योगदुष्पणिधानानादरस्मृत्यनुपस्थानानि ॥३३॥अप्रत्यवेक्षिता प्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥३४॥ सचित्तसम्बन्धसम्मिश्राभिषवदुष्पक्काहाराः॥३५।। सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३६॥जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि॥३७॥अनुग्रहार्थ स्वस्यातिसर्गो दानम्
Page #19
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् । ॥३८॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः॥३९॥ .. इति तत्त्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्यायः ॥ ७॥ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १॥ सकषायत्वान्जीवः कर्मणोयोग्यान्पुद्गलानादत्तेस बन्धः॥शाप्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः॥३॥ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः॥४॥पञ्चनवद्यष्टाविंशतिचतुर्दिचत्वारिंशद्धिपञ्चभेदा यथाक्रमम् ॥५॥मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥६॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ सदसद्धेद्य॥८॥ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिदिनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकपायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः॥९॥ नारकतैर्यग्योनमानुषदैवानि ॥१०॥गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहनन
Page #20
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्रम् । १७, स्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययश कीर्तिसतराणि तीर्थकरत्वं च ॥११॥ उच्चैर्नीचैश्च ॥ १२ दानलाभभोगोपभोगवीर्याणाम् ॥१३॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिः ॥ १४ ॥ सप्ततिर्मोहनीस्य ॥१५॥ विंशतिर्नामगोत्रयोः॥ १६ ॥ त्रयस्त्रिंशत्सागरोपमाण्यायुषः॥१७ ॥ अपरा द्वादशमुहूर्ता वेदनीयस्य १८॥ नामगोत्रयोरष्टौ ॥ १९ ॥ शेषाणामन्तर्मुहूर्ताः॥ २० ॥ विपाकोनुऽभवः ॥२१॥ स यथानाम ॥२२॥ ततश्च निर्जरा ॥ २३॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४॥ सदेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ अतोऽन्यत्पापम् ।। २६॥
इति तत्त्वाधिगमे मोक्षशास्त्रेऽष्टमोध्यायः ॥ ८॥ आस्रवनिरोधः संवरः ॥१॥ स गुप्तिसमिति
Page #21
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् । धर्मानुप्रेक्षापरीपहजयचारित्रैः ॥ २ ॥ तपसा निजरा च ॥३॥सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ ईर्याभाषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाऽकिञ्चन्यब्रह्मचर्याणि धर्मः॥६॥ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः ॥७॥ मार्गाच्यवननिर्जरार्थ परिसोढव्याः परीषहाः॥८॥ क्षुत्पिपासाशीतोष्णदशमशकनारन्यारतिस्त्रीच-निषद्याशय्याक्रोशवधयाञ्चालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥ ९ ॥ सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥ एकादशजिने ॥११॥वादरसाम्पराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञाज्ञाने ॥१३॥ दर्शनमोहान्तराययोरदर्शनालाभौ॥१४॥चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाञ्चासत्कारपुरस्काराः ॥१५॥ वेदनीये शेषाः ॥ १६ ॥ एकादयो भाज्या युगपदेकस्मिन्नेकोनविंशतिः॥१७॥ सामायिकच्छेदोपस्थापनाप
Page #22
--------------------------------------------------------------------------
________________
तत्त्वार्थसूत्रम् । रिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥१८॥अनशनावमौदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासनकायक्केशा बाह्यं तपः॥१९॥प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सगंध्यानान्यत्तरम॥२०॥नवचतर्दशपञ्चद्धिभेदा यथाक्रमं प्राग्ध्यानात् ॥२१॥ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥ ॥२२॥ ज्ञानदर्शनचारित्रोपचाराः॥२३॥आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥२४॥ वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥२५॥ बाह्याभ्यन्तरोपध्योः॥२६॥ उत्तमसं. हननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥२७॥ आतरौद्रधर्म्य शुक्लानि ॥२८॥ परे मोक्षहेतू ॥२९ ॥ आर्तममनोज्ञस्य सम्प्रयोगे तदिप्रयोगाय स्मृतिसमन्वाहारः ॥३०॥ विपरीतं मनोज्ञस्य ॥ ३१॥ वेदनायाश्च ॥ ३२ ॥ निदानं च ॥ ३३ ॥ तदविरतदेशविरतप्रमत्तसंयातानाम् ॥ ॥३४॥ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमवि
Page #23
--------------------------------------------------------------------------
________________
मोक्षशास्त्रम् ।
- रतदेशविरतयोः ॥ ३५ ॥ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् || ३६ | शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ परे केवलिनः ॥ ३८ ॥ पृथ्वक्त्वैकत्ववितर्कसूक्ष्म क्रियाप्रतिपातिव्युपरत क्रियानिवर्तीनि ॥ ॥३९॥ त्र्येकयोगकाययोगायोगानाम् ॥४०॥ एकाश्रये सवितर्कवीचा पूर्वे ॥ ४१ ॥ अवीचारं द्वितीयम् ॥ ४२ ॥ वितर्कः श्रुतम् ॥ ४३ ॥ वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षप कोपशमकोपशान्तमाहक्षपकक्षीण मोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ पुलाकवकुशकुशील निर्गन्थस्नातका निर्ग्रन्थाः ॥ ४६ ॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्य पपादस्थानविकल्पतःसाध्याः॥४७॥
इति तवार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ॥ ९॥
२०
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥ १ ॥ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्म्मविप्रमोक्षो मोक्षः ॥ २ ॥ औपशमिकादिभव्यत्वा
Page #24
--------------------------------------------------------------------------
________________
तरवार्थसूत्रम् । २१ नां च ॥३॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिइत्वेभ्यः॥४॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥ पूर्वप्रयोगादसङ्गत्वादन्धच्छेदात्तथागतिपरिणामाच्च ॥ ६॥ आविद्धकुलालचक्रवक्ष्यपगतलेपालाबुवदेरण्डबीजवदमिशिखावच्च ॥ ७ ॥ धर्मास्तिकायाऽभावात् ॥८॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः॥९॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः॥ १० ॥
अक्षरमात्रपदस्वरहीनं व्यञ्जनसन्धिविवर्जितरेफम् । । साधुभिरत्र मम क्षामितव्यं को न विमुह्यति शास्त्रसमुद्रे ॥१॥ दशाध्याय परिच्छिन्ने तच्चार्थे पठिते सति ।। फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः ॥ २ ॥ तत्त्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितम् ।। वन्दे गणीन्द्रसंजातमुमास्वामिमुनीश्वरम् ॥३॥ इति तत्त्वार्थमूत्रापरनाम तत्त्वार्थाधिगममोक्षशास्त्रं समाप्तम् ।
Page #25
--------------------------------------------------------------------------
________________
जैन अन्व-रत्नाकर कार्यालय बम्बईमें मिलनेवाली
कुछ जैन पुस्तकें ।
मोक्षशास्त्र-बालबोधिनी भाषाटीका सहित... नित्यनियमपूजा-संस्कृत और भाषा ... ... रत्नकरण्डश्रावकाचार-अन्वय अर्थ सहित ... द्रव्यसंग्रह-अन्वय अर्थ भावार्थ और द्यानतरायकृत भाषाकवितासहित भकामरस्तोत्र-अन्वय अर्थ भावार्थ और हिन्दी कवितासहित ... जैनबालबोधकप्रथमभागभकामर-हेमराजजीकृत भाषा और मूल संस्कृत ... ... पंचमंगल-अभिषेकपाठ और पंचामृताभिषकपाठ सहित दर्शनपाठ-दौलत और बुधजनकृत दर्शनसहित छहढाला-दौलतरामकृत बड़े अक्षरोमें छपा... ... भूधरजैनशतक-उपदेशमय कवित्त सवैया... . बालबोधजैनधर्म-चार भाग, यथाक्रम मूल्य ... -)-)10)-) छहढाला-ब्रह्मचारी शीतलप्रसादजीकृत भाषाटोका ... ... -1) पार्श्वपुराण-छन्दोबद्ध भूधरदासजीकृत . नियमसार-मूल, संस्कृत टीका और भाषाटीकासहित ... )
मिलनेका पताजैन-प्रन्थ-रत्नाकर कार्यालय,
हीराबाग, पो. गिरगांव-बम्बई,
Page #26
--------------------------------------------------------------------------
________________ जैनधर्मसम्बन्धी सब तरहके ग्रन्थोंके मिलनेका पता जैन-ग्रन्थ-रत्नाकर कायोलय, हीराबाग, पो० गिरगांव, बम्बई।