________________
श्रीपरमात्मने नमः। आचार्यश्रीमदुमास्वातिविरचितं
मोक्षशास्त्रम्
अपरनाम
तत्त्वार्थसूत्रम्। मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ॥१॥ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ तनिसर्गादधिगमादा ॥३॥ जीवाजीवास्रवबन्धसंवरनि र्जरामोक्षास्तत्त्वम्॥४॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५॥ प्रमाणनयैरधिगमः ॥ ६ ॥ निर्देशस्वामित्वसाधनाधिकरणास्थतिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुवैश्च ॥ ८॥ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९॥ तत्प्रमाणे ॥ १० ॥ आद्ये परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥१२॥ मतिःस्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनान्तरम् ॥ १३ ॥