________________
मोक्षशास्त्रम् । जम्बुद्धीपः ॥९॥ भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः॥ ११ ॥ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ मणिविचित्रपार्था उपरि मृले च तुल्यविस्ताराः ॥ १३ ॥ पद्ममहापद्मतिगिच्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि ॥ १४ ॥ प्रथमो योजनसहस्रायामस्तदईविष्कम्भो हृदः॥१५॥ दशयोजनावगाहः ॥ १६॥तन्मध्ये योजनं पुष्करम् ॥ १७॥तद्धिगुणद्विगुणा इदाः पुष्कराणि च ॥१८॥ तनिवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमास्थितयः ससामानिकपरिषत्काः॥१९॥गङ्गासिन्धुरोहिद्रोहितास्याहरिरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥ २० ॥द्वयोर्दयोः पूर्वाः पूर्वगाः ॥२१॥ शेषास्त्वपरगाः ॥ २२ ॥ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥ भरतः