________________
मोक्षशास्त्रम् । ॥ २२ ॥ कृमिपिपीलिका भ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥ संज्ञिनः समनस्काः ॥ २४ ॥ विग्रहगतौ कर्मयोगः ॥ २५ ॥ अनुश्रेणि गतिः ॥ || २६ || अविग्रहा जीवस्य ॥ २७ ॥ विग्रहवती च संसारिणः प्राक्चतुर्भ्यः ॥ २८ ॥ एकसमयाऽविग्रहा ॥ २९ ॥ एकं द्वौ त्रीन्वाऽनाहारकः ॥ ३०॥ सम्मूर्च्छनगर्भोपपादा जन्म ॥ ३१ ॥ सचित्तशीत - संवृताः सेतरा मिश्राचैकशस्तद्योनयः ॥ ३२ ॥ जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥ देवनारका गामुपपादः ॥ ३४ ॥ शेषाणां सम्मूर्च्छनम् ||३५|| औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६ ॥ परं परं सूक्ष्मम् ॥ ३७ ॥ प्रदेशतोऽसंख्येयगुणं प्राकू तैजसात् ॥ ३८ ॥ अनन्तगुणे परे ॥३९॥ अप्रतीघाते ॥४०॥ अनादिसम्बन्धे च॥४१॥ सर्वस्य ॥ ४२ ॥ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ||४३|| निरुपभोगमन्त्यम् ||४४|| गर्भसम्मृर्च्छनजमाद्यम् ॥४५॥ औपपादिकं वैक्रियिकम् ॥ ४६ ॥ लब्धिप्रत्ययं च ॥ ४७ ॥ तैजसमपि