________________
मोक्षशास्त्रम् । धर्मानुप्रेक्षापरीपहजयचारित्रैः ॥ २ ॥ तपसा निजरा च ॥३॥सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ ईर्याभाषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाऽकिञ्चन्यब्रह्मचर्याणि धर्मः॥६॥ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः ॥७॥ मार्गाच्यवननिर्जरार्थ परिसोढव्याः परीषहाः॥८॥ क्षुत्पिपासाशीतोष्णदशमशकनारन्यारतिस्त्रीच-निषद्याशय्याक्रोशवधयाञ्चालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥ ९ ॥ सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥ एकादशजिने ॥११॥वादरसाम्पराये सर्वे ॥१२॥ ज्ञानावरणे प्रज्ञाज्ञाने ॥१३॥ दर्शनमोहान्तराययोरदर्शनालाभौ॥१४॥चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाञ्चासत्कारपुरस्काराः ॥१५॥ वेदनीये शेषाः ॥ १६ ॥ एकादयो भाज्या युगपदेकस्मिन्नेकोनविंशतिः॥१७॥ सामायिकच्छेदोपस्थापनाप