Book Title: Mokshshastram
Author(s): Umaswami, Umaswati,
Publisher: Jain Granth Ratnakar Karyalay
View full book text
________________
मोक्षशास्त्रम् ।
च ॥ ३८॥ परापल्योपममधिकम् ॥ ३९ ॥ ज्योति - ष्काणां च ॥ ४० तदष्टभागोऽपरा ॥ ४१ ॥ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४२॥ इति तत्त्वार्थाधियोगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥ द्रव्याणि ॥ २ ॥ जीवाश्च ॥ ३ ॥ नित्यावस्थितान्यरूपाणि ॥ ४ ॥ रूपिणः पुद्गलाः ।। ५ ।। आ आकाशादेकद्रव्याणि ॥ ६ ॥ निष्क्रियाणि च ॥७॥ असङ्खयेयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥ ८ ॥ आकाशस्यानन्ताः॥ ९ ॥ सङ्ख्येयासङ्घ चेयाश्च पुगलानाम् ॥ १० ॥ नाणोः ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२ ॥ धर्म्माधर्म्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ असङ्खयेयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपग्रहौ धम्माधर्म्म - योरुपकारः || १७ || आकाशस्यावगाहः || १८॥ शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ १९ ॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ वर्त्तनापरिणामक्रियाः पर

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26