Book Title: Mantungacharya aur unke Stotra
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 132
________________ मूलपाठा: Jain Education International तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत् समानमपरं न हि रूपमस्ति । । १२ । वक्त्रं क्व ते सुर-नरोरग - नेत्र - हारि निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् ।।१३।। संपूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकम् कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ।।१४।। चित्रं किमत्र ? यदि ते त्रिदशाङ्गनाभि नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताऽचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् ? ।।१५।। निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानाम् दीपोsपरस्त्वमसि नाथ ! जगत्प्रकाशः । ।१६।। नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ।।१७।। नित्योदयं दलितमोहमहान्धकारम् गम्यं न राहुवदनस्य न वारिदानाम् । For Private & Personal Use Only ११५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154