________________
मूलपाठा:
Jain Education International
तावन्त एव खलु तेऽप्यणवः पृथिव्यां
यत् समानमपरं न हि रूपमस्ति । । १२ ।
वक्त्रं क्व ते सुर-नरोरग - नेत्र - हारि निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य
यद्वासरे भवति पाण्डुपलाशकल्पम् ।।१३।।
संपूर्णमण्डलशशाङ्ककलाकलाप
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकम्
कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ।।१४।।
चित्रं किमत्र ? यदि ते त्रिदशाङ्गनाभि
नीतं मनागपि मनो न विकारमार्गम् ।
कल्पान्तकालमरुता चलिताऽचलेन
किं मन्दराद्रिशिखरं चलितं कदाचित् ? ।।१५।। निर्धूमवर्तिरपवर्जिततैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि ।
गम्यो न जातु मरुतां चलिताचलानाम्
दीपोsपरस्त्वमसि नाथ ! जगत्प्रकाशः । ।१६।।
नास्तं कदाचिदुपयासि न राहुगम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति ।
नाम्भोधरोदरनिरुद्धमहाप्रभावः
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ।।१७।।
नित्योदयं दलितमोहमहान्धकारम् गम्यं न राहुवदनस्य न वारिदानाम् ।
For Private & Personal Use Only
११५
www.jainelibrary.org