________________
११४
मानतुंगाचार्य और उनके स्तोत्र
यत्कोकिल: किल मधौ मधुरं विरौति
तच्चारुचूतकलिकानिकरैकहेतुः ।।६।। त्वत्संस्तवेन भवसंततिसन्निबद्धम्
पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु
सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् ।।७।। मत्वेति नाथ! तव संस्तवनं मयेद
मारभ्यते तनु-धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ।।८।। आस्तां तव स्तवनमस्तसमस्तदोषं
त्वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव
पद्माऽऽकरेषु जलजानि विकासभाञ्जि ।।९।। नात्यद्भुतं भुवनभूषण! भूतनाथ !
भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति ? ।।१०।। दृष्ट्वा भवन्तमनिमेषविलोकनीयं
नाऽन्यत्र तोषमुपयाति जनस्य चक्षुः ।। पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः
क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ।।११।। यैः शान्तरागरुचिभि: परमाणुभिस्त्वं
निर्मापितस्त्रिभुवनैकललामभूत ! ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org