Book Title: Magnopnishad Author(s): Yashovijay Gani, Kalyanbodhisuri Publisher: Jinshasan Aradhana Trust View full book textPage 7
________________ मग्नाष्टकम् प्रत्याहृत्येन्द्रियव्यूह, समाधाय मनो निजम् । दधच्चिन्मात्रविश्रान्तिं, मग्न इत्यभिधीयते ।।१।। यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता । विषयान्तरसञ्चार - स्तस्य हालाहलोपमः ।।२।। फस्वभावसुखमग्नस्य, जगत्तत्त्वावलोकिनः । कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते ।।३।। परब्रह्मणि मग्नस्य, श्लथा पौद्गलिकी कथा । क्वामी चामीकरोन्मादाः, स्फारा दारादराः क्व च? ।।४।। तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः । भाषिता भगवत्यादौ, सेत्थम्भूतस्य युज्यते ।।५।। ज्ञानमग्नस्य यच्छम, तद् वक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषै - र्नापि तच्चन्दनद्रवैः ।।६।। शमशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा । किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नताम् ? ।।७।। यस्य दृष्टिः कृपावृष्टि - र्गिरः शमसुधाकिरः । तस्मै नमः शुभज्ञान - ध्यानमग्नाय योगिने ।।८।।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24