________________
मग्नाष्टकम्
प्रत्याहृत्येन्द्रियव्यूह, समाधाय मनो निजम् । दधच्चिन्मात्रविश्रान्तिं, मग्न इत्यभिधीयते ।।१।।
यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता । विषयान्तरसञ्चार - स्तस्य हालाहलोपमः ।।२।।
फस्वभावसुखमग्नस्य, जगत्तत्त्वावलोकिनः । कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते ।।३।।
परब्रह्मणि मग्नस्य, श्लथा पौद्गलिकी कथा । क्वामी चामीकरोन्मादाः, स्फारा दारादराः क्व च? ।।४।।
तेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः । भाषिता भगवत्यादौ, सेत्थम्भूतस्य युज्यते ।।५।।
ज्ञानमग्नस्य यच्छम, तद् वक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषै - र्नापि तच्चन्दनद्रवैः ।।६।।
शमशैत्यपुषो यस्य, विप्रुषोऽपि महाकथा । किं स्तुमो ज्ञानपीयूषे, तत्र सर्वाङ्गमग्नताम् ? ।।७।।
यस्य दृष्टिः कृपावृष्टि - र्गिरः शमसुधाकिरः । तस्मै नमः शुभज्ञान - ध्यानमग्नाय योगिने ।।८।।