Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे ३२ सर्गे
॥५०२॥
वाहनः ॥ १८ ॥ दधानो वरदं शक्तिमपसव्यकरद्वये । गदां च नागपाशं च, वामहस्तद्वये दधत् ॥ १९ ॥ युग्मम् । देवी भवेन्महाकाली, स्वर्णवर्णाम्बुजासना । चतुर्भुजा सवरदपाशयाम्यकरद्वया ॥ २० ॥ मातुलिङ्गाङ्कुशोपेतवामहस्तद्वयाऽनिशम् । सुमतिप्रभुभक्तानां पूरयन्ती मनोरथान् ॥ २१ ॥ युग्मम् । इति श्रीसुमतिः ॥ प्रागभूद्धातकीखण्डे, विजये वत्सनामनि । सुसीमायां महापुर्या, नृपो नाम्नाऽपराजितः ॥ २२ ॥ सोऽभूत्प्रपद्य चारित्रं, सुगुरोः पिहिताश्रवात् । एकत्रिंशत्सागरायुर्देवो ग्रैवेयकेऽन्तिमे ॥ २३॥ वत्सदेशे सुकोशायां, नगर्यां धरभूपतेः । अभूत्सुतः सुसीमायां राज्ञ्यां पद्मप्रभस्ततः ॥ २४ ॥ माघस्य षष्ठी कृष्णाऽथ, द्वादशी च त्रयोदशी । कार्त्तिकस्यासिता चैत्रपौर्णमासी ततः पुनः ॥ २५ ॥ कृष्णा मार्गैकादशी च, कल्याणकदिनाः क्रमात् । विष्ण्यं च पञ्चखप्येषु, चित्रासंज्ञकमीरितम् || २६ || षड्वासराधिका मासा, नव गर्भस्थितिः प्रभोः । कन्याराशिश्च विज्ञेयो, लाञ्छनं च सरोरुहम् ॥ २७ ॥ त्रिंशत्पूर्वलक्षहीनैर्नवत्याऽभूत्सहस्रकैः । पद्म| प्रभोऽधिकोटीना महत्सुमतिनिर्वृतेः ॥ २८ ॥ सहस्रा अब्धिकोटीनां, दश तुर्यारकस्य च । प्रभुजन्मन्यशिव्यन्त, सत्रिंशत्पूर्वलक्षकाः ॥ २९ ॥ पद्मवन्निर्मलो यस्मान्मातुर्गर्भस्थिते प्रभौ । पद्मप्रभाङ्कशय्यायां दोहदात्तादृशाह्वयः ॥ ३० ॥ धनुः शतद्वयं सार्द्धं, खामिनो वपुरुच्छ्रयः । सार्द्धानि पूर्वलक्षाणि, सप्त ज्ञेया कुमा रता ॥ ३१ ॥ राज्यैश्वर्यं पूर्वलक्षाण्यद्ध्यर्द्धान्येकविंशतिम् । सातिरेकाणि पूर्वाङ्गैः पूर्णैः षोडशभिर्दधौ ॥ ३२ ॥ पूर्वलक्षं च पूर्वाद्वैरूनं पोडशभिर्व्रतम् । त्रिंशत्पूर्वलक्षजीबी, मासांश्च षडकेबली ॥ ३३ ॥ शिविका निर्वृति
Jain Education nonal
For Private & Personal Use Only
सुम तिपद्म
प्रभौ
२५
॥ ५०२ ॥
२८
ainelibrary.org

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350