Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
छठे पोहिल्लभवग्गहणे' इति सूत्रे श्रीवीरस्य देवानन्दागर्भस्थितिस्त्रिशलाकुक्ष्यागतिश्चेति भवद्वयं विवक्षितम-11 ISस्तीति ज्ञेयं । आषाढे धवला षष्ठी, चैत्रे शुक्ला त्रयोदशी। मार्गस्य दशमी कृष्णा, वैशाखे दशमी सिता ॥६५॥]
कार्तिकस्यामावसीति, कल्याणकदिनाः प्रभोः। अभूगर्भापहारे तु, त्रयोदश्याश्विने सितिः ॥ ६६ ॥ फाल्गुन्य उत्तरा धिष्ण्यं, कल्याणकचतुष्टये । तथा गर्भापहारेऽपि, निर्वाणे खातिरिष्यते ॥ ६७॥ योमहिलयोर्गर्भ, स्थितिः संकलिता विभोः। नव मासाः सातिरेकाः, सप्तभिः किल वासरैः॥ ६८॥ श्रीपार्श्वनाथनिर्वाणाद|भृजन्मान्तिमार्हतः। साधिकेनाष्टसप्तप्त्या, शतेन शरदामिह ॥६९॥ श्रीवीरगर्भकाले च, वर्षाणां पञ्चसप्ततिः। तुर्यारकेऽवशिष्टाऽसीत्, सार्द्धमासाष्टकाधिका ॥७०॥ राशिरासीद्विभोः कन्या, लाञ्छनं च मृगाधिपः । देहो-11 च्छ्रयः सप्त हस्ताः, प्रशस्ताङ्गद्युतिश्रियः॥७१ ॥ गुणागतानि नामानि, त्रीण्यभूवन् जगद्विभोः। वर्द्धमानः श्रमणश्च, महावीर इति स्फुटम् ॥७२॥ अवतीर्णे प्रभौ ग्रामराष्ट्रादि यदवर्द्धत । ततः पितृभ्यां विहितमादिमं नाम सार्थकम् ॥ ७३ ॥ तपस्यति श्राम्यतीति, नाम श्रमण इत्यभूत् । तृतीयं नाम शक्रेण, विहितं तनिशम्यताम् ॥ ७४ ॥ प्रशशंसान्यदा शक्रः, खामिधैर्य स्वपर्षदि । अश्रद्दधानस्तत्कश्चिद्देवो भूलोकमीयिवान् ॥ ७॥ क्रीडति खामिनि क्रूरसर्परूपमदीदृशत् । निक्षिसे खामिना दूरं, तस्मिन्निीकचेतसा ॥७६॥ कुमाररूपमाधाय, चिक्रीड प्रभुणा सह । छलेन स्कन्दमारोप्य, प्रभुं स ववृधे भृशम् ॥ ७७॥ युग्मम् । तथाप्यभीतो भगवान् , शनैर्मुष्ट्या जघान तम्। ततः शक्रो व्यधातुष्टो,महावीराभिधं विभुम् ॥७८॥ तथोक्तं-"बालत्तणेवि सूरो, पयइए
N
Jan Educatio
For Private & Personal Use Only
ainelibrary.org
INFO

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350