Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे
३२ सर्गे
॥ ५२३ ॥
गणधराः
उपसर्ग १ स्तथा गर्भापहारो २ ऽभांविता सभा ३ । चमरोत्पतनं ४ चन्द्रसूर्यावतरणं ५ तथा ॥ २९ ॥ २ आश्चर्याणि हरेरमरकङ्कायां गमनं ६ स्त्रीजिनेश्वरः ७ । हरिवंशकुलोत्पत्ति ८ रर्चा चासंयतात्मनाम् ९ ॥ ३० ॥ साष्टकश- वीरतस्य सिद्धिर्ज्येष्ठावगाहनावताम् । अनन्तकालभावीनि, दशाश्चर्याण्यमून्यहो ॥ ३१ ॥ आद्यानि पञ्चाश्चर्याणि तीर्थेऽन्त्यस्यापराणि तु । नेमिमल्लिशीतलश्रीसुविधिप्रथमार्हताम् ॥ ३२ ॥ नाभेयोऽष्टापदे वीरोऽपापायां पुरि निर्वृतः । वासुपूज्यश्च चम्पायां, नेमी रैवतकाचले ॥ ३३ ॥ अन्ये संमेतशिखरे, पर्यङ्कासनसंस्थिताः । श्रीनेमि - वीरवृषभाः कायोत्सर्गासनाः परे ॥ ३४ ॥ आद्यः षड्विरुपवासैर्द्वाभ्यां वीरः शिवं गतः । शेषा मासक्षपणेन, तपसा निर्वृतिं ययुः ॥ ३५ ॥ आद्यः सहस्रैर्दशभिः, षड्डिस्तैर्विमलो जिनः । अनन्तजित्सप्तभिस्तैः, श्रीशान्तिर्नवभिः शतैः ॥ ३६ ॥ सप्तमैकोनविंशौ च पञ्चभिः पञ्चभिः शतैः । सिद्धः पद्मप्रभः सार्द्ध, त्रिभिरष्टोत्तरैः शतैः ॥ ३७ ॥ नेमिः षट्त्रिंशदधिकैः साधूनां पञ्चभिः शतैः । षङ्गिः शतैर्वासुपूज्यो, धर्मः साष्टशतेन च | ॥ ३८ ॥ त्रयस्त्रिंशत्साधुयुक्तः, पार्श्वनाथः शिवं ययौ । एकाकी चरमः स्वामी, सहस्रेणान्विताः परे ॥ ३९ ॥ अष्टात्रिंशत्सहस्राणि पञ्चाशीतिसमन्विता । चतुःशती जिनैः सार्द्ध, निर्वृता सर्वसंख्यया ॥ ४० ॥ तृतीयषष्टनवमद्वादशा अपराह्न के । शेषाः श्रेयांसपर्यन्ताः, पूर्वाह्ने वृषभादयः ॥ ४१ ॥ धर्मारनमिवीराश्चापररात्रे शिवं गताः । शेषास्तु पूर्वरात्रेऽष्टौ सिद्धाः श्रीविमलादयः ॥ ४२ ॥ इन्द्रभूतिरग्निभूतिर्वायुभूतिरमी त्रयः । सहोदरास्तथा व्यक्तसुधर्माणो द्विजोत्तमौ ॥ ४३ ॥ षष्ठो मण्डित
For Private & Personal Use Only
Jain Education national
२०
२५
॥ ५२३ ॥
२८
jainelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350