Book Title: Lokprakash Part_3
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 321
________________ ॥ अथ त्रयस्त्रिंशत्तमः सर्गः प्रारभ्यते ॥ तथाऽस्यामवसर्पिण्यां, प्रथमश्चक्रवर्तिषु । अभूद्भरत इत्यादिदेवस्य तनुजोऽग्रिमः॥ १॥ सुमङ्गलाकुक्षिरत्नं, पश्चचापशतोच्छ्रितः । खर्णरुक् चतुरशीतिपूर्वलक्षसुजीवितः ॥२॥ साधिताशेषषट्खण्डः, स चादर्शगृहेऽ-18 न्यदा । निरङ्गुलीयकां पश्यन्नङ्गुली पर्यभावयत् ॥३॥ शरीरासारतां द्राक् च, लेभे केवलमुज्वलम् । प्रदत्तसाधुवेषश्च, शक्रेणागत्य वन्दितः॥४॥युग्मम् । सहस्रर्दशभी राज्ञां, सेवितः स्वीकृतवतैः । विहृत्य लक्षं पूर्वाणामवाप परमं पदम् ॥५॥ इति भरतः॥ __ अयोध्यायां नगर्यां च, द्वितीयश्चक्रवर्त्यभूत् । वर्णवर्णः सार्द्धचतुर्धनुःशतसमुच्छ्रितः ॥ ६॥ द्वासप्ततिपूर्व| लक्षजीवितः सगराह्वयः । सुमित्रविजयक्ष्मापयशोमत्योस्तनूद्भवः ॥ ७ ॥ युग्मम् । अजितस्याहतश्चासौ, |पितृव्यतनयोऽभवत् । यतः सुमित्रविजयो, जितशत्रुश्च सोदरौ ॥ ८॥ सोऽपि वपुत्रमरणप्राप्तवैराग्यवासनः।। अजितस्याहंतः पार्थे, परिव्रज्य शिवं ययौ ॥९॥ इति सगरः॥ __ अभून्नगर्या श्रावस्त्यां, समुद्रविजयो नृपः। भद्रा प्रियतमा तस्य, मघवा तनयस्तयोः ॥१०॥ द्विचत्वारिंशदध्यर्द्धा, धनुषां वपुरुच्छ्यः । लक्षाणि पञ्च वर्षाणामायुष्कं चास्य कीर्तितम् ॥११॥ संसारानित्यतां ध्यायन्, जातवैराग्यवासनः । सोऽगाद्गृहीतचारित्रः, स्वर्गलोकं तृतीयकम् ॥ १२ ॥ इति मघवा ॥ Jain Education a l For Private Personal Use Only sinelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350